पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः । श्रीमते भगवद्रामानुजाय नमः । श्रीमते रङ्गरामानुजमहादेशिकय नमः । शुसप्रकाशिकाव्याख्यायां भावप्रकशिकायां तृतीयाध्याये द्वितीयः पादः (१) सन्ध्याधिकरणम् । सन्ध्ये सुषिराह हि ३-२-१. सुखानुभवेऽपीति । ‘कृतात्यय’ इति सूत्रांशेन स्वर्गक्षविष्णुदस्य सूत्र कृत स्थापितस्यादिति भावः । दुःखिवज्ञापनप्रकारः सर्वोऽपि रंहयधिकरणे अस्माभिः प्रपञ्चितः तत्रैवानुसन्धेयः । भाष्ये स्वममधिकृस्येति । प्रवृत्तेति शेषः । स्वप्नमधिकृत्य प्रवृत्त श्रुतिः श्रयत इति योजना । तेन समानकर्तृकत्वात् ने क्वानुपपतः। अधिकृत्य प्रस्तुस्येत्यर्थः । भाष्ये रथयेगा इति । यैर्युज्यन्त इति रथयोगः = रथाश्वः । कर्मणि घञ्। ‘कीकरण ’ इति समासः । वेशन्तः पत्रछनीयर्थः । पुष्करिण्य इति द्वितीयार्थे, सुषे सुपे भक्ष्तीति जनादेशः । अथ वा छान्दसः पूर्वसवर्णदीर्घभवः । स्वप्नं पश्यतीनि हि प्रकृतमिति । यद्यपि, "स यत्र स्वपिति अस्य लोकस्य सर्वावतो मात्र उपदाय स्वयं विहृत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिष प्रस्वमिति; अत्रायं पुरुषः स्वयं ज्योतिर्भवती " युक्रम्य हि , ‘न तत्र २था ’ इति बृहदारण्यके भूयते -अत एव शाङ्करभाष्ये, “स यत्र प्रस्वपिती 'युपक्रम्ये येत्रोळम् - तथापि प्रवतीित्यय अस्पष्टार्थत्वात् । सर्थ लैकिकं वादयन्तमुपालम्; न त्वेतत् श्रुतिवचश्मुयतमिति द्रष्टयम् । एवमुत्र खन्नं पश्यतीति प्रकृतो जीव इत्यत्रापि द्रष्टव्यम् । भाष्ये सन्ध्यं स्खन स्थानमुच्यत इति । तस्य हृया एतस्य पुरुषस्य द्वे एव स्थाने भवतः, इदं च परलोकयानं च । सन्ध्यं तृतीयं स्वक्षस्थानम् । तस्मिन् सन्ध्ये स्थाने तिष्ठन् एते उभे स्थाने पथति, इदं च परलोकस्थनं च" इति श्रुतिः । यथा आमसन्धिः