पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवप्रकाशिका (अ. इयत्वादिगुष्काधिकरणम् १-२-५) ४५३ एका खेते अदृढा यज्ञश्रूप अष्टादशोक्तमवरं येषु कर्म । एतच्छूयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवर्पियन्ति । अवेिद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानः । जघन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः । अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बाल । यत्कर्मिणो न प्रवेदयन्ति रागातेनातुराः क्षीणलेोकाश्चबन्ते । (यस्मात्क्रणात् कर्मिणो गोपहतास्तत्वे न जानन्ति तस्माच्च्यवन्त इत्यर्थः) इष्टापूर्त मन्यमाना वरिष्ठ नान्यच्छेयो वेदयन्ते प्रमूढः । नाकस्य पृष्ठ सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति । (अनुभूत्वा अनुभूय इत्यर्थः । हीनतरं वा – तिहीनं नरकं वा इत्यर्थः ।) तपःश्रद्धे ये खुपवसन्त्यरण्ये शान्ता विद्वांसो ब्रह्मचर्यं चरन्तः (न्) । सूर्यद्वारेण ते विरजl; प्रयान्ति यन्नामृतः स पुरुषे ह्यव्यथात्मा । परिक्ष्य लोकान् कर्मचेितनू ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थे स गुरुमेवाभिगच्छेत् समेित्पाणिः श्रोत्रियं ब्रह्मानेिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्धतो ब्रह्मविद्याम् । इति द्वितीयः खण्डः ॥ तदेतत् सत्यम् । यथा खुदीप्तात् पावकात् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद्विविधाः सोम्य भावः प्रजायन्ते तत्र चैवापियन्ति । दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अमाणो ह्यमनाः शुभ्रो संक्षरात्परतः परः ।