पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५८ श्रीरङ्गरामानुजमुनिविरचिता नायमात्मा प्रवचनेन लभ्यो न धिया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैप आत्मा विवृणुते तनू स्वाम् । नायमात्मा बलहीनेन लभ्यो न च प्रमादातपो वाप्यलिङ्गत् । (तपशब्दो ज्ञानपरः। चक्राक्षादिलिङ्गशून्यज्ञानेन च न लभ्य इत्यर्थः) एतैरुपायैतते यस्तु विद्वान् तस्यैव आत्मा विशते ब्रह्मधाम । (ऐरुपायै:-वलाप्रमादसलिङ्गज्ञानैरित्यर्थः) संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानी वीतरागाः प्रशान्ता । ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति । वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगात् यतयः शुद्धसत्त्वlः । ते ब्रह्मलोके तु परान्तकाले परमृतात्मरिमुच्यन्ति सव । गताः कलाः पञ्चदश प्रतिष्ठाः देवाश्च सर्वे प्रतिदेवतालु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकं भवन्ति । यथा न्छ; स्यन्दमानाः समुदे अस्तं गच्छन्ति नामरुपे विहाय । तथा िवद्वान् नामरूषाद्विमुक्तः परात्परं पुरुभूति िदव्यम् । स यो वै तत्परमं ब्रह्म वेद ब्रौव भवति । नात्याब्रह्मवित् कुले भवति । तरति शोकं तरति पाप्मानम् । गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति । तदेव श्लोकः-- क्रियावन्तः श्रेलिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षेि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोत्रतं विधिवत् यैस्तु चीर्णम् । तदेतत्सत्यमृषिङ्गिराः प्रोवाच । नैतद्चीर्णनतोऽधीते, नाकृतपावनो नासन्यासी च । नमः परमर्षेिभ्यो नमः परमभ्यिः । इतेि धष्ठः खण्डः ।