पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिकी ( अध्यधिकरणम् ३-३१४) ८२९ सामवेदे समानि विहितानि । तत्र समसु सामवेदविहितत्वनिबन्धनोर्वैवस्य प्राप्तिं पूर्वपक्षीय - आधानस्य प्रधानम्य यजुर्वेदिक्सया तद्धर्मत्वादुपांशुवस्य तेनोचेंडू बध्यते ; ततश्च वासन्तीयादिसाम्सु उपैशुद्ध प्रयोक्तव्यमिति सिद्धान्तितम् ; न तूचेष्टमभिप्रेनमिति । न बनेिन तस्य गतार्थता। शङ्कनीया ; तस्यैव न्यायस्य प्रपश्वनं क्रियत इत्युक्तवान् । ‘इयदामननात् ’ इति सूत्रमपि, ‘ इतरे त्वर्थसामान्य ' इत्य- स्यैव प्रपञ्चः । परेन्नित्यादि । समाननादिति । सर्वविद्यपेक्षितस्वेन समानत्वादित्यर्थः । अङ्गानां प्रधानानुवर्तिन्वे हीति वन्मते निभेदतया अङ्गप्रधानभावाभावादिति भावः । न पौनरुक्तमित्याहुरिति । सिद्धस्यापि प्रपञ्चनस्य बहुशः शत्रेषु दर्शनादिति भावः । अतं पिबन्ताविति। अयं मन्त्रः कंठवल्गतः । द्वामुपर्येति मन्त्रस्तु मुण्डकस्ताश्वतरगत इति द्रष्टव्यम्। इयदामननादिति वनमिति । यतः द्वसुपर्णाविति प्रतिपद्यस्य द्विस्वसख्यपेतस्याभेदेनाऽऽमननादिति सूत्रार्थः । छत्रिन्यायेनाविरोधादिति । अतं पिबन्तावियन पिबच्छब्दः पातुवशये ‘परमात्मनि छत्रिभ्यायेन प्रयुक्त इत्यर्थः । वस्तुतस्तु अनयोर्मन्लयोः पौर्वापर्यपर्या लोचनायां केवलपरमामपरस्वमेव प्रतीयते; न तु जीवेन सद्वितीयस्वमपि । कथं तहैिं जो घोपादानमिति चेन्न -- तादात्म्यविवक्षया परममन अभेदं जीवस्य दर्शयितुं जीवोऽनूयते । परमास्मविद्यायाश्च निभेदविषयत्वात् भेदाभेदविचार- स्यापि न प्रसक्तिरिति यदुक्तम् - तदनुभाधते - जीचोषादनस्येति । इथच्छब्दोऽपीति । इदं परिमणमयेत्यर्थे परिंमाणे वतुप् । किमिदंभ्यां वो घः ’ इति बतुब्वस्य च घः । अत्र च परिमणशब्दः प्रस्थादिविषयः । ऊर्द्धमानं विलोःमानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् संस्या अद्य तु सर्वतः ।। इति श्लोकवार्तिककारेण उन्मनपरिमाणसंख्यानां परस्परभेदः प्रतिपादितः । तुलादधरोप्य येन द्रव्यान्तरपरिच्छिन्नगुरुत्वेन पलादिशब्दवाच्येन पाषाणादि सुवर्णादेः गुरुस्वमुन्मीयते, तत् गुरुवमनमुन्मनम्। आयाममानं प्रमाणम्। आयामो 104