पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अश्वत्वादिगुणकाधिकरणम् १-२.५) ४६१ ननु प्रकृष्टपुण्यस्य जीवम्य बद्धदशायां कथं साधैश्यमेित्यत आह--तदु पलक्षित इति । पुण्योपलक्षिप्त इत्यर्थः । नित्यमुक्तम्य गोत्रणैनिषेधस्वास्या भावात् पुण्योपलक्षितमुक्त इति उक्तमिति द्रष्टव्यम्। प्रकृतःक्षरपर इति भाव इति । पूर्वपक्षिणोऽपि वेिबादाभावादिति भावः । काश्धत्प्रत्यभिज्ञानाधेति । 'तथा ऽक्षरात्सम्भवतीह विश्व ' िनति पूर्वमन्तुनपञ्चम्वन्प्रत्यभिज्ञानं चशब्देन समुचीयते । कारणत्वमन्द्येति । तस्यापि विधाने गौरवादिति भावः । ननुभूतयोनित्वलिङ्गप्रत्यभिज्ञानादपीति । “अथ पाया तदक्षरमधि गम्यत इति वाक्यभतिपाद्यस्य, यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः तस्मात् ” इति निर्दिष्टस्य च कारणत्वमत्यभिज्ञानात् ऐक्यमभ्युपगम्य, अक्षरत् परत: पर इति अवधि पञ्चग्यन्तःक्षरपदनिर्दिष्टस्य भूतयेऽन्यक्षरभेदकल्पनापेक्षय, अथ परा यया तदक्षरमिति वाक्यप्रतिपन्नाक्षरस्य, अक्षरात्परतः पर इति पञ्चभ्यः]क्षरदनिर्दिष्टप्रधानैक्यमेव प्यायः उभयत्राप्यक्षरश्रुतिप्रत्यभिज्ञानात् । ततश्ध तस्मिन् प्रधाने सार्वश्यादिविधानमनुपपन्न मित्यर्थः । भूतयोनित्वलिङ्गानुगृहीतस्येति । यद्यपि, येनक्षरं पुरुषमिति वाक्ये भूतयोनेित्वं न श्रुतम्--तथापि, 'यः सवैज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादतत् ब्रह्म नाम रूपमन्नश्वजायत 'इति वाक्यस्य, 'येनाक्षरं पुरुष'मिति वाक्यस्य च ऐका थ्र्यस्य चोभयसम्प्रतिपन्नतया भूतयोनित्वलिङ्गानुगृहीताक्षरशब्दतया प्रत्यभिज्ञा बलव तीति तात्पर्यम् । प्रथमभाविनः प्रबलतयेति । एतेन, तथाक्षरात्सम्भवतीह विश्वम् तथाक्षराद्विविधाः सोग्य भावाः, अक्षरात्परतः परः इत्येतेषां पञ्चम्यन्तसारूप्यादेक विषयत्वमित्येतदपि निरस्तं वेदितव्यम् । पुरुपत्वादिति । चेतनत्वात् सार्वश्य योग्यत्वं सम्भवतीति भावः । व्यपदिश्यत इत्यर्थ इत्यस्यान्तरम्, “तत्र हेतुमाह - प्रकृतमदृश्यत्वादिगुणकमितीति ग्रन्थ उपेक्षितः । अतश्च व्युत्क्रमेण प्रतीकग्रहण शंकाया नावकाशः । अदृश्यत्वादिगुणकत्वेन प्रकृतत्वादित्यर्थ इति । अमूर्त पुरुषग्रत्यभिज्ञाषकाणिपादत्वादिगुणकत्वादित्यर्थ । उत्तरग्रन्थानुसारात् तस्यैब हेतू कर्तुमुचितत्वादितेि द्रष्टयम् । पुरुषशब्दवाच्यत्वेन चेति । न च पूर्वपक्षिणः, तेनेदं पूर्ण पुरुषेण सर्वमित्यादीनां भूत्योन्यक्षरपरत्वमसंमतम् । पुरुषशब्दितजीव परमित्येव तदभिप्रायादिति वाच्यम्- यस्मात्परं नापरभस्तीत्यत्र यच्छब्दादिबलेन