पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकृतभून्योन्यक्षप्रतिपादकः स्य पुरुशब्दे वक्तव्यत्वात्, ये क्षरं पुरुषं वेद सत्त्र एा नस्य वक्तव्यत्वाचेति द्रष्टव्यम् । प्रकृतमट्टश्वादिगुणकमिति भाप्ये प्रकृतमित्य प्रधानतिपाद्यत्वेन कृतस्वार्थ इत्यभिश्यन् व्याचष्ट - अदृश्यत्वादिगुणकमक्षर मेवेति । परतः परत्वेनीच्यत इत्यभ्युपेत्यमिति । अभधानप्रतिपाद्यस्य प्रधान प्रतिपाद्यान् परबेनोक्यसम्भवादिति भावः । ब्रह्मशब्दयोर्भिश्नविषयत्वदर्शनादिति । स्पष्टम् इति पदद्वयस्यापीत्यर्थ । इञ्चम्यन्तपदसापेक्षत्वादिति । अत एव देवदत्तपुत्र इत्यादौ न सामानाधिकरण्यं पुत्रपदस्य षष्ठान्तपदसापेक्षत्वादिति द्रष्टव्यम् । परं ब्रह्मविपया विद्या परविधेति । न तु अथ रेति श्रुताविव अपरोक्षत्वमर्थ इति भावः । भाष्ये गुरुपरम्परया अङ्गिरसा प्राप्तानिति । 'ब्रह्मा देवानां प्रथम सम्बभूवे ' त्यादिश्रुतिरलानुसन्धेयः ! व्याख्यानप्रकारमाह--तल कैश्चिदिति । मृवावादिमतमाह - कैश्चित्कर्मज्ञानमिति । “अपरा च धर्मसाधनफलविषये' ति मुण्डकमाप्ये शङ्करेण व्याख्यातत्वादिति भावः । अपरमात्मज्ञानमपरविद्येति । जीवज्ञानमित्यर्थः । अत्रत्यवाक्येनेति । न मेधया न वहन् श्रतेने !ति वाक्येन मेधशब्दिस्य पासनस्यापि नैफल्यावभादित्यर्थः । विवेकादसाधनसप्तकानु गृहीतमित्यत्र साधनसप्तकस्यागमजन्यज्ञानाङ्गत्वाभावात् अनुगृहीतगेित्यस्य सहकृत मित्यर्थ इत्यभिप्रयन्नाह – साधनसप्तकं शास्त्रजन्यज्ञानश्चेति । उत्थितमित्यर्थ इति । 'आगमोत्थं विवेकाचे ! ति श्लोके उत्थितमिति शेष इत्यर्थः । तत्रेत्यादि वाक्वेनेति | भाष्यगतं तत्रेतिपदं न भाष्यकारीयम्; अपितु श्रुतिगतमित्यर्थः । “परा चैवापरा पं । तत्रापरा-ऋग्वेदो यजुर्वेद' इति हि श्रुतिः । स्पष्टीकृतमिति भाष्येऽपि, “वेदस्य ज्ञानोत्पतिहेतुत्वा'दित्यत्र वेदशब्देन सूचितम् । तेन, * न चात्रा गमोत्थत्वं शाब्दं प्रतीयत'ति शङ्का भाष्य एव परिहृतेति द्रष्टव्यम् । कर्मस्वायत्तम मृतमिति। लोकश्चेति शेषः । अमृतत्वसाधनभूतं कर्मेत्यर्थ इत्यत्रापि स्वर्गामृत खसाधनेत्यर्थः; स्वर्गापवर्गेति भाष्यनुरोधात् । ततश्च लोका अमृतञ्च कर्म