पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। भावप्रकाशिका (अङ्गावबद्धाधिकरणम ३-३-२२) भावः ! वृत्तिकारोक्तिरिति । शरीरातिरिक्तात्मास्तित्वनसत्तौ, "शारीरके बक्ष्याम " इत्युपवर्ष वृतिकृत उक्तिरित्यर्थः । त्रिभुत्वाणुत्वायाकारेति । स्वरूपतोणुत्वम् । धर्मभूलज्ञानद्वार। विभुस्वमित्यर्थः ।। इति शरीरेभावाधिकरणम् । [२२] अङ्गावबाधिकरणम् अङ्गावबद्धास्तु न शास्त्रासु हि प्रतिवेदम् ३-३.५३. भाष्ये उक्थथमुक्थमितीति । इत्थं कर्माङ्गभूतं शस्त्रं यत् प्रजा वदन्ति तदिदमेव, येयं पृथिवी इत्युक्थे पृथिवीत्वदृष्टिविधिः, भाष्ये वास्बेव नियता इति । अयं भावः - सामवेद एव ताण्डिशाखाप्रभृतयो वयइशाखाः। तासु च शाखाग्नु सर्वासु सामाक्यवोद्गीथाः स्वरवर्णविशेषादिभेदेन भिन्नाः । ताण्डिशाखायां च आप्त्यादिगुणविशिष्टतया हिरण्मयप्राणाकाशादिदृष्टिविशिष्टतया चोरीयाधुपासनानि विहितानि । तानि च ऋतुमध्ये अनुष्ठे यानि । तत्र यदा त्यतया ताण्डिशाखागतो- ङ्गीथः प्रयुज्यते, तदा तस्मिन्नेव तच्छाखाविहिताप्त्यादिगुणविशिष्टोपासनं कर्तव्यम् , उत्त शाखान्तरगतेऽप्युद्गीथे क्रत्वतया प्रयुज्यमाने इति । एवं वेदान्तरविहितोद्रीय धु- पासनेपि तत्तद्वेदविहितोगीयाद्युपासनप्रकारः तत्तद्वेदविहितोद्गीथमानविषयकः, उत- वेदान्तरविहितविषयकोऽपि वेति । उपांशु यजुषेति वचनबलात् यजुर्वेदविहित उनीथ उपांशुत्वगुणः; वेदान्तरविहितस्तु उच्चैष्टुगुणक इति द्रष्टव्यम् ! भाष्ये सर्ववेदान्त- प्रत्ययत्व इति । ननु उद्गीथाना मन्त्रावयवरूपाणां नानाशाखाम्नातानामभेदः प्रत्यक्षप्रत्यभिज्ञानादेव सुवचो न सर्ववेदान्तप्रत्ययन्यायमपेक्षते । न हि नाना- शाखाम्नातमन्त्राभेदप्रत्ययः सर्ववेदान्तप्रत्ययन्यायसाध्य इति चेत् - सत्यम् ! साम- वेदान्तर्गतनानाशाखाम्नातोगीथव्यक्तीनामभेदो न्यायसापेक्षः । प्रत्यभिज्ञवैद ऐक्यस्य सुज्ञानत्वात् – तथापि वेदान्तरविहिनादुगोथाद्वेदान्तरविहितस्य उद्गीथस्य विहितस्य — विधानायोगादित्यभ्यासाधिकरणोक्तन्यायेन भेदशंका समुभिषति ; तत्परिहारस्तु सर्ववेदान्तप्रत्ययन्यायमपेक्षत इति भावः । भाष्ये उद्दीथसंवन्धि-