पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४८ श्रीरङ्गरामानुजमुनिविरचिता तया श्रुनाया इति । उपास गया इति शेषः । . भाष्ये एवमाधास्तास्त्र शास्सास्थिति । "ओमित्येतदक्षरमुद्गीथमुपासीत " इत्यादिवाक्यविहित - आप्त्यादि गुणकोरीयोपासनाप्रभृतय इत्यर्थः । अनेन सन्निधेः व्यवस्थापकत्वमिति । नन्विदमसंगतम् । उद्धीयवाक्यप्रवृत्तेः प्राक् तत्तच्छाखागतोद्गीथादिव्यक्तीनामेव सन्निहितत्त्वात् अविशेषमवृत्तापि श्रुतिः सन्नधिवशेन व्यवस्थास्यत इति पूर्वपक्षिणो- पक्षिप्त अविशेषप्रवृत्ताया श्रुनेईलसन्निध्यनरे धेन संकोचासंभवादित्येव परिश्तव्यम् । श्रुति जनितप्रतीतेरपि प्राक् सन्निहित एव विषय इति बदन्तं पूर्वपक्षिणं प्रति एतस्यानुत्तस्त्वात् । श्रुतिप्रवृत्तेः प्रक् उद्गोथव्याय-तराणामसन्निधानस्यैव हेतू- करणोन तस्य पूर्वपक्षहेतोः तादवस्थ्यादिति चेत् - सत्यम ; अविशेषप्रवृत्तावाः श्रुतेः सन्निधिवशेन संकोचस्यायुक्तत्त्वादिस्यत्रैव तात्पर्यात् । ननु उद्गीथमुपासीते त्यत्र उद्दीथश्रुतेरुद्रोथसामात्यं वाच्यम् । उरोथव्यक्ति लक्ष्या । स्वशाखागतोगाथ- व्यत्युपादाने च सामान्यम्य प्रतिव्यक्तिममाप्त्या सामान्यविशेषौ द्वावपि श्रुत्यर्थों गृहीती । तत्र कथं श्रुतिबाधः । यथाहुः, 'जातिव्यक्ती गृहीत्वेह वयं तु श्रुलिक्षिते । कृष्णादि यदि मुञ्चामः का श्रुतिस्तत्र पीड्यते ।। इति । 'पटं शुक्रमानयेति प्रयोगे पटपदेन श्रुमपटवजाति लक्षितां च शुक स्टव्यक्ति गृहोत्वा कृष्णादिव्यक्ति यदि मुञ्चामः, का श्रुतस्तत्र पीइयते ? न कापीत्यर्थः ।' इत्युक्तमिति चेत्, न । शुक्लायमानयेत्यत्र शुक्लमात्रस्य पटमात्रस्य च ग्रहणे परस्परविशष्टार्थप्रत्यायकत्वभङ्ग संगेन संकोचेपि इह अविशेषप्रवृत्तोद्गाथमात्रग्रहणे बाधकामाशदिति भावः । भाष्ये सर्वशाखाप्रत्ययन्यायेन वेति । ननु “भूयस्त्वेन उभयश्रुती"तिन्यायेन(३-३-३)ज्योतिष्ठोमस्य याजुर्वेदिकतया ताण्डिशाखाया विधाना- भावेन तद्वारा उद्गीथाद्यङ्गानामसन्निधापितत्वेन आप्त्यादिगुणविशिष्टनाण्डिशाखाविहितो- द्रीयोपासनेषु, ज्योतिष्टोमाङ्गभूतनानाशाखागतस्वरविशेषविशिष्टसर्वोद्रोथव्यक्तीना- मुपास्यत्वं न स्यात् । किंबहुना, यस्यां शास्त्र यां यस्थ क्रतोः न विधिः, तदङ्गभूतो- द्गीथव्यक्तीनां नानाशाखागतानां अङ्गिद्वारा सन्निधापनाभावाद्विषयत्वं न स्यात् इति 61