पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (भूमण्यायस्वाधिकरणम् ३-३-२३) ८४९ चेन्न । एतम्य अभ्युञ्चययुक्तितया उपन्यस्तत्वेन एतस्याव्यापित्वेपि पूर्वोक्तयुक्ते- ापिनेन तन्निराकरणसंभवेन दोषाभावात् । मन्त्रादिवद्वाऽविरोधः ३३-५४. भाष्ये आदिशब्देनेति । पशुनायजेतेत्यन्न पशुत्वजातिः एकत्वसंख्या, 'अरुणयैकडायन्या" इत्यत्र आरुणिमगुणः एकहायनीद्रव्यम् , “श्येनचित चिन्वीत " इत्यादौ सादृश्यम् , “वेदं कृत्वा बेदि करोती " त्यादौ क्रमः, प्रया- जादीनि च कर्माणि । उद्गीथपदश्रुत्या विनियोगादिति । उद्गीथपदगतद्वितीया- श्रुत्येत्यर्थः । न चैवमुपासनस्योद्धीमाङ्गलप्रसक्त्या, "तन्निर्धारणानियमः", " अङ्गेषु यथाश्रयभावः " इत्याधिकरणविरोध इति वाच्यम् - तत्परिहारस्य, “अन्यथात्वं शब्दादिलिचेत् " इत्यत्र अस्माभिः प्रपञ्चितत्वात् । सर्वशाखिनामुपासनेष्वधि- कारः फलमिति । सर्वशाखिनां सर्वशाखागतोगीथप्रयोक्तां सर्वशाखाविहितो- गोथोपासनेष्वधिकारः फलमित्यर्थः । ततश्च यथा आप्त्यादिगुणविशिष्धमुपासन ताण्डिशाखायां श्रुतं ऋतुमध्ये ताण्डिशस्वागतोद्गाथप्रयोक्तारमधिकरोति, एवं ऋतुमध्ये शाखान्तरगतोद्वीश्रप्रयोक्तारमपि इदमुपासनमाधि कुर्यात् । अन्यथा ताण्डिशाखागतोद्गोथविषयमेव तच्छाखाविहितमाप्त्यादिगुणविशिष्टमुपासनमिति ऋतुषु जैभिन्यादिशाखागतोद्वीथप्रयुक्तः तत्रोपासने अधिकारों न स्यादिति भावः ।। इत्यावबद्धाधिकरणम् । [२३] भूमज्यायस्त्वाधिकरणम् भून्नः ऋतुबत् ज्यायस्त्वं वा हि दर्शयति ३-३-५५. श्रुनिसिद्धमिति । "ओमित्येतदक्षरमुद्रीथम् " इत्यत्र व्यस्तोपासनम् । "पृथिवी हिंकारोऽमिः प्रस्ताव आदित्य उद्गीथ " इति द्वितीयप्रपाटके समस्तो- पासन सिद्धमित्यर्थः । किमवयवभूतमिति । किरूपावयवभूतमित्यर्थः । "एतमेवात्मानं वैश्वानरमुपास्त ' इत्यादिष्वित्यर्थ इति । “एक वै सुतेना 107