पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता आत्मा वैश्वानरः" इत्यादिना तेषु तेषूपासनेषु उपास्यस्य वैश्वानरत्वं चाहे ति भाष्ये स्फुटान्वये प्रतीयमाने एवं व्याख्यानमयुक्तमिति मन्यमाना इमं प्रत्थं लेखक- प्रक्षिप्त वर्णयन्ति । एवं श्रुतिः, " औपमत्यव: कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजनिति होवाच, एष वै सुतेजा आत्मा वैश्वानरः, यं त्वमात्मान- मुपास्से । अत्स्यन्नं पश्यसि प्रियम् । अत्यन्न पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एवमेतमात्मानं वैश्वानरमुपास्ते । मूर्धा खेष आत्मन इति होवाच मूर्धा ते न्यपतिष्यत् , यमा नागमिष्यः" इति । अत्र च अत्यन्नमित्यादिरुतरसन्दर्भो व्यस्तोपासने तत्फले च प्रमाणीकर्तुं योग्यः । एष वै सुतेजा इत्यादिपूर्वसन्दर्भस्तु उपास्यस्य वैश्वानरत्वे प्रमाणीकर्तुमुचितः । अतोऽयं अन्थः प्रक्षिप्त इत्येव युक्तमिति । केचिनु "मूर्धादिषु व्यस्तेषूपासनं तत्र फलं चोक्तवान् । 'अत्यन्न पश्यति प्रियं भवत्यस्य ब्रह्मसं य एवमेतमात्मानं वैश्वानरमुपास्ते । मूर्धा वेष मामान इति" इत्येतावत्येव वाक्यं परिसमाप्तम् । मूर्धा त्वेष आत्मनः इत्यस्य मूर्धरूप- व्यस्तोपासनमात्र प्रमाणत्वेन मूर्धादिव्यस्तोपासने प्रमाणत्वाभावात् । अतः, "एष वै सुतेजा आमा वैश्वानर, (नरइत्यादिना?") इत्यस्य फलश्चोक्तवानिति पूर्वेणान्क्यो वक्तव्यः । न तु वैश्वानरत्वं चाहेत्युत्तरेण । तमिममर्थमभिप्रेत्य एतवात्मानं वैश्वानरमुपास्त' इत्यादिग्वित्यर्थ इत्युक्तमिति वर्णयन्ति । भाष्ये ह्युप्रभृति- प्रदेशावच्छिन्नमात्र इति । थुप्रभृतिप्रदेशसेंबन्धिनी प्रादेशिकी मात्र! यस्य स प्रादेशमान इति श्रुत्यर्थ इति भावः । व्यस्तोपासनफलात्पृथक्फलनिर्देशादिति । न च ' यस्त्वेतमेवं प्रादेश- मान मित्येतत् व्यस्तोपासनसमुदायानुवाद इत्युक्तमिति वाच्यम् - व्यस्तोपासनेषु फलोक्तरेवावयुत्यानुवादत्वमित्यपि सुवचस्वेन विनिगमनाविरहात् उभयोपासनमपि विधीयत इत्येवाभ्युपगमनीयमिति भावः । समस्तोपासनं प्रधानप्रतिपाद्यमिति । भूमविद्यायां सत्यशब्दोक्तस्य ब्रह्मणः सर्वतो भूयस्त्व, प्रतिपादनार्थं तदवधि- स्वेनोपास्यमानेषु नामादिप्राणान्तेष्विव सर्वशरीरकस्य वैश्वानरस्यप्रतिपादनार्थं तदवय- स्वेनोपन्यस्यमानेषु नामादिप्राणान्तेष्विव सर्वशरीरकस्य वैश्वानरस्य प्रतिपादनार्थ तदवयत्वेनोपन्यस्यमानेषु स्वलोकादिषु प्रासंगिकोपासनतरफलाभिवानस्य महा- .