पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। भावप्रकाशिका (भूमज्यायस्याधिकरणम ३-३-२३) ८५१ वाक्यैक्याबिरोधित्वादिति भावः । न च-भूमविद्यायां नामाद्युपासमानामश्रुता निन्दा इह तु व्यस्तोपासनानां निन्दा श्रयते । सा च उदितानुदितहोमनिन्दान्यायेन प्रक्रान्तविषयल्यागविषयतया योजयितुं न शक्यते । समस्तोपासनामविज्ञाय व्यस्तो- पासना एव कृतवतः प्राचीनशालादीन् प्रति तन्निन्दाश्रवणादिति वाच्यम् - तथापि न हि निन्दा न्यायेन योजयितुं शक्यस्यात् । न पत्र उदितानुदितहोमयोरिव व्यस्तोपासनेषु प्रायश्चित्तश्रवणमस्ति । येन प्रक्रान्तविषयत्यागविषयतायोजनपर्यन्त- मपेक्ष्येत । न हि निन्दा न्यायेन विधेयप्रशंसापरस्यात् । निन्दया व्यस्तोपासन- निषेधोन्नयनेपि, 'न चतुनिशदिति ब्रयात् । इत्यत्न निषेधेनेव विध्युन्नयनमवर्जनीयम् । निषेधस्य रोगप्राप्तविषयत्वाभावात् । तस्मात् समस्तोपासनचत् व्यस्तोपासनान्यपि नामाद्युपासनवत् विधेयानीति भावः । अनर्थाश्रवणमेकं वैषम्यमित्यर्थ इति । नन्वनर्थवचन नहिनिन्दा न्यायेन समस्तोपासनस्तुत्यर्थतयोपपन्नम्, न निषेधानुमापकम् । तथात्वेपि लोकतोऽप्राप्तानां त्यस्तोपानानां निषेधः तेषु विधेः साधक एघ, न बाधक इत्युक्तमिति चेमैवम् । अग्निहोत्रं प्रकृत्य श्रुतेन, 'जतिलयवाग्वा वा जुहुयात् गवीधुकयवाग्वा वा जुहुयात् , न ग्राभ्यान् पशून् हिनस्ति नारण्यान् इति अक्येन जतिलगवीधुकशब्दवाच्यारण्यतिलारण्यगोधूमकृतयवाग्वोर्विकल्पनामिहोत्रा- हुतौ द्रष्यत्वविधाने लिङिभक्तिबलेन, ग्राम्यारण्यपशुहिंसारहिततया तयोः स्तवने च प्रतीयमानेपि, 'अथो खल्लाहुरनाहुति जतिलाश्च गवीधुकाश्च पयसाऽमिहोत्रं जुहु- या दिति तदनन्तरं जतिलादिप्रतिक्षेपेण पयोविधिदर्शनात् । तदेकवाक्यतया " जर्ति- यवाग्वा वा जुहुयात्" इत्यादेः, ग्राम्यारण्यपशुहिंसारहित्येन प्रशस्ततया होमाह अपि नतिला गवीधु काश्च यदपेक्षया दुष्टाः, तत्पयोऽत्यन्तप्रशस्तमिति पयस्स्तुत्यर्थत्वम् एक- वाक्यतानुरोधादिति, “न चेदन्यं प्रकल्पयेत् प्रक्लृप्तावर्थवादः स्यादानर्थक्यात्परसाम- योश्च" इति पूर्वतन्त्राधिकरणे (१०-८-४) यत्किञ्चिद्विधिपूर्वकनिन्दायासह विधिना विध्यन्तर (२१) श्रवणे सति तदर्थवादस्वं तदेकवाक्यतानुरोधात् समर्थितम् । एवमिहाप्यङ्गीतुं युक्तम् । ननु जतिलगवीधुक्योः पयसा सह संबन्धाभावात् जतिलगवीधुकयवागविधानयोः पयोविध्येकवाक्यता अथवादतथैव समर्थनीयतेति तन्न' तथास्तु “नाम । इह तुं भूमविद्यायां नामादीनां सत्येन ब्रह्मणा सह भूय .