पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 श्रीरङ्गरामानुजमुनि विरचिता स्त्वावधितयेव यादीनां समस्तोपासनाविषयेण वैश्वानरस्मना सहावयवस्वेन संबन्धोऽस्तोति प्रासङ्गिकतदुपासनाविधानरेकवाक्यस्वभङ्गोऽस्ति । अतो भूमविद्यान्याय एवात्र प्रवर्तितः, न तु जतिलगवीधुकयवागू.याय इति चेत् -- मैवम् ; व्यस्तोपासन- निन्दनेन, 'मूर्धा वेध आत्मन इति होवाच ' इत्यादिवाक्येषु तुशब्दकृतेन यादीनां स्वतन्त्रोपास्यत्वव्यवच्छेदेन, ‘तान् होवाच एते वै खलु यूयं पृथगिवेम- मारमान वैश्वानरं विद्वांसोऽन्नमत्थ इति व्यस्तोपासनानां भ्रममूलकत्वोद्धाटनेन भूमविद्यावैषम्यस्य बहुविधस्य सत्त्वेन जर्तिलयवागून्यायस्यैव प्रवृत्त्यौचित्यादिति । प्रामाणिकत्वाभिप्रायेणाप्युपपन्न इति । ज्यायस्त्वं प्राचीनत्वम् । 'वृद्धस्य च' इति सूत्रेण वृद्धशब्दस्यापि ज्यादेशविधानात् । तत्तु प्रमाणिकत्वपर्यवसायि । प्रामाणिकत्वं प्रायोऽनादिसिद्धं भवति, भ्रान्तिकल्पितं तु पूर्वपक्षिणोत्प्रेक्षितमित्यद्यतनं भवतीति भावः । ( भाष्योक्त दृष्टान्त एवोचित इति) इति भूमज्यायस्वाधिकरणम् । i (२४) शब्दादिभेदाधिकरणम् नाना शब्दादिभेदात् ३-३-५६. भाष्ये अन्याः प्राणाधेकविषयफला इति । प्राणायेकविषया एकफला विद्या अप्युदाहरणमित्यर्थः । पौनरुक्त यशङ्का परिहस्तीति । "सर्ववेदान्तप्रत्यय चोदनाद्यविशेषात् ॥ इत्यनाभ्यासप्रकरणान्तराभ्यां भेदहेतुभ्यां भेदं पूर्वपक्षीकृत्य चोदनाद्यविशेषेण सिद्धान्तः क्रियते । यद्यभ्यासपकरणान्तरयोः भेदहेतुत्वमसिद्ध स्वात् , तदा पूर्वपक्ष एवानुपपन्नः स्यात् । सिद्धान्तश्च ततस्तराम् । ततस्तयोर्मेद- हेतुत्वं तत्रैव समर्थितमिति पौनरुत्वशका भवतीति भावः । एवं वदत आचार्यस्य तु अत्रैवासां परस्परमेदे समर्थिते सतीति भाष्यस्य, अभ्यासप्रकरणान्तरयो-

  1. दहेतुत्वे समर्थिते सतीत्यर्थ इति हृदयम् । साङ्गप्रधानकर्मेति । प्रयोगापरपर्याय!

धात्वर्थकरणिका भावनेत्यर्थः । सामधानानुष्ठानमिति यावत् । शब्दान्तरा- दिभिः यागदानादिलक्षणधालामकानुबन्धभेदसिद्धिः । धात्वर्थभेदानुनिष्पादी