पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (शब्दादिभेदाधिकरणम् ३-३-२४) च भावनाभेद हपि मीमांसकपक्रिया । तदेकदेशा धापा() इति । धात्वर्थस्य यागादेः साङ्गप्रधानानुष्ठानविषयावेन एकदेशयोक्तिरिति द्रष्टव्यम् । (१) विधेय- भेदहेतव इत्यर्थ इति । शब्दान्तराधक्गमिनधात्वर्थभेदानुनिष्पादी भावनाभेद इत्यर्थः । रूपमेदो मा भूदिति । रूप्यत इति रूप भावना । भावनाभेदो मा भू- दित्यर्थः । वेदनोपासनादिशब्दाश्चेति । विद्युपास्योर्व्यतिकरण उपक्रमोपसंहार- दर्शनादिति भावः । रूपभेदाद को विशेष इति । यद्यपि न्यासविद्यायां शब्दान्तरं भेदकम् ; उपासनेषु रूपभेदो नियामक इति सिद्धावपि न दोषः- तथाऽ- प्युपासनेऽपि शब्दान्तरेऽपि भेदकत्वं वक्तव्यमित्यभिप्रेत्य तथोक्तमिनि द्रष्टव्यम् । देवतोदेशेति । देवतोद्देशेन द्रव्यत्यागो यागः, देशविशेषप्रक्षेपविशिष्टस्त्यागो होमः, परस्वत्वापादनपर्यन्तस्त्यागो दानमिति पूर्वतन्त्रे चतुर्थे जैमिनिना प्रतिपादितत्वादिति भावः । देशविशेषविशिष्टप्रहाणगोचरतयेति । देशविशेषविशिष्ट प्रक्षेपविशिष्ट- माणगोचरतयेत्यर्थः । तर्हि यजत्यादितुल्यत्वे मुख्यशब्दान्तरत्वमेव स्थादित्यत आह - तकविद्याश्रवणवेलायामिति । यजत्यादिशब्दानां व्युत्पत्तिदशायामेव भिन्नार्थत्वावगमः ; उपासनादिशब्दानां तु न व्युत्पत्तिदशायां भिन्नार्थत्वावगमः, अपि तु पश्चादिति भावः । ब्रह्मेति प्रकरणभेद उक्त इति । ब्रह्मप्राप्तिरूपफल- संबन्धीति वाक्येनेत्यर्थः । कुदृष्टिनिरसनं चेति । शब्दान्तरादीनि हि उत्पत्ति- परतां विधेर्योधयन्ति सन्त्युत्पन्नस्य पुनरुत्पत्ययोगात् कर्म भिन्दन्ति । अतः शब्दान्तरादिभिः भेदसाधने सिद्धं विधेयत्वमिति भावः । बधिकरणेविति । पूर्वतन्त्र इति शेषः वेदनस्य द्रव्यनिष्ठत्वादिति । द्रव्यशेषस्वादित्यर्थः । प्रोक्षणावधाता- दीनामेवेति । उत्पत्याप्तिविकृतिसंस्कृतिकरणोपकारकरणावान्तरल्यापाराधिकारा- पूर्वरूपसप्तविधसाध्यभेदात् अनुबन्धभेदाच्च शास्त्रभेद इति गुरुमर्यादा । प्रकृते च कस्याप्यभावात् श्रवणमनननिदिध्यासनानामन्योन्यं निदिध्यासनेष्वपि न परस्परं भेद इति पूर्वपक्षाभिप्रायः । अत एवेति । पूर्वपक्षावकाशाभावदित्यर्थः । इति शब्दादिभेदाधिकरणम् । 1