पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता (२५) विकल्पाधिकरणम् विकल्पोऽविशिष्टफलत्वात् ३-३-५७. न्यासविद्याऽभिप्रेतेति । न्यासविद्याऽयभितेत्यर्थः । काम्यास्तु यथाफाम समुच येरन् न वा पूर्वहेत्वभावात् ३-३-५८, समुच्चयनिरासायोगाचेति । ब्रह्मानुभवविशेषहेतुसाक्षात्कारार्थतथा समुच्चय- शशातादवस्थयादिति भावः । ये चेमेऽरण्य इत्यत्रेति । तद्य इत्थं विदुय चेमेऽरण्य इति सर्वब्रह्म- विद्यानां ब्रह्मप्राप्तिफलकर्वश्रवणेन षष्णामाग्नेयादीनां समुच्चित्य स्वर्गसाधनत्ववत् इहापि वक्तव्यमिति भावः । सैवाविशिष्टफलत्वेन निराकार्येति । फलातिशय- संभावनैव अविशिष्टफलल्लादिति सूत्रखण्डेन निरसनीयेत्यर्थः । हति विकल्पाधिकरणम् । (२६) यथाश्रयभावाधिकरणम् अङ्गेषु यथाश्रयभावः ३-३५९. पर्णतादिवदिति । जुहादिमुनेनेति शेषः । अधिकरणान्तरं मध्ये प्राप्तमिति । ननु तन्निर्धारणानियम इत्यतैवेमाः शङ्काः परिहरणीयाः, एकविषय- स्वान्मुखभेदाभावादित्याक्षिपन्तं प्रति नेदमुत्तरमिति चेत् - उच्यते । तस्मिन्नधिकरणे एतदधिकरणसिद्धं पुरुषार्थस्वमुपजीव्यानियमदर्शनादनियमः प्रतिपादितः । इह तु पुरुषार्थत्वं समर्थ्यत इति मुखभेदान्नैकाधिकरणप्रतिपाद्यत्वनिर्बन्ध इति भावः । अत एवास्मिन्नवाधिकरणे भाष्यटीकयोः पुरुषार्थत्वप्रतिपादकयुक्त्युपन्यासो ट्यान् दृश्यत - इत्यवगन्तव्यम् । अतो न तत कृतमिति । तदनन्तरमेव न कृतमित्यर्थः । स्ववाक्ये श्रयमाणमिति । कमिपदोपबन्धादिति शेषः। वाक्यान्तरस्थत्वेनेति । कामेपदाद्युपबन्धयुक्तवाक्यविलक्षणवाक्यस्थत्वेनेत्यर्थः । एवं सर्वत्र वाक्यान्तरस्थ