पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५६ श्रीरङ्गरामानुजमुनिविरचिता 'होतृपदनाद्वैवापि दुरुगोथ मिति । तस्य झायमर्थः । होला प्रयुज्यमानस्य प्रणवस्य उद्गाला प्रयुज्यमानस्य उनीथस्य च, एकरवविज्ञाने उदात्रा अनुष्ठिते सति, तद्विज्ञान- माहास्यात् उदाता स्वकर्मणि उद्गाने यक्षतं स्वरप्रमादादिरूपं तद्धोतृकृतात् सम्यक् शंसनात् हेतोः समादधातीति । दुष्टस्य समीचीनेनैक्ये हि दुष्टस्य सामीचीन्यं भवतीति युज्यत इति । न तु (ननु !) दुरुद्वीथमित्यस्य वेदनहीनमित्यर्थः । वेदनस्यैव फलश्रवणादिति चेत् -- सत्यम् ; प्रणवोदोक्यविज्ञानफलमेवेदम् । तथापीदं विज्ञानं उद्गीथविषयकवत् उद्दातृकर्तृकमपि संभवति । होला प्रयुज्यमानप्रणवविषयत्वात् होतृकर्तृकमपि भवति । ततश्चोदातृकर्तृकवेदनहीनतया दुरुदार्थ होना स्वकृतात् शंसनात् प्रतिसमादधातीत्यर्थः । ततश्चोगीथोपासनस्याऽऽवश्यकत्वं सिद्धधतीति भावः । गुणासाधारण्य श्रुतेश्च ३.३.६२. माध्ये गुणशब्दस्य सूत्रगतस्याश्रयत्वमर्थ इति कथमुच्यते इत्याशझ्याह- उपासनार्थत्वविवक्षयेति । प्रधानस्याप्योकारस्य उपासननिर्वर्तकावेन गुणत्व- संभवात् तद्विवक्षया आश्रये गुणशब्द उपचरितः सूत्र इति भावः । न वा तत्सहमावाश्रुतेः ३-३-६३. भाष्ये अङ्गमावे हि सहभावनियमो भवतीति । अङ्गभाव एव सहभावनियम इत्यर्थः । सहभावनियम एवात्तमित्युसरटीकाग्रन्थानुसारात् । ततश्च महभावशब्देन तन्नियमरूपाङ्गभावस्य लक्षणासंभवात् सहभावाश्रुतेरित्यस्यार- भावाश्रुतेरिति व्याख्या युज्यत इति भावः । यथाश्रुतेऽनुपपत्तिमाह - सहभावमात्र- स्येति । पूर्वपक्षिणाप्यङ्गीकृतत्वादिति । पूर्वपक्षिसिद्धान्तिभ्यामङ्गीकृतत्वेन सहभावाश्रुतेरिति यथावतार्थासंभवदिति भावः । नन्वभावाश्रवणमप्रयोजनम् । पर्णता यायेन वाक्यविषया बाधनसंभवादित्यत आह - अङ्गत्वविरोधीत्यादि । अन्यतरविलम्बाभावसाधादिति । ननु मोदोहनवाक्येऽपि गोदोहनेनेति तृतीया. श्रूयते । तत्र कथं फलसाधनत्वाश्रवणम् , इहं कथं विद्ययेति तृतीयया साधन- वश्रवणमिति चेत्-न गोदोहनस्य सिद्धरूपस्य क्रियामनिवर्तयतः फलं प्रति कारणत्वा- संभवात् अप्पणयन क्रियाकारकस्यैव गोदोहनस्य फलं प्रति करणत्वमिति प्रणयन- क्रियाकरणस्वं तृतीययोच्यते । प्रकृते तु उपासनस्य क्रियारूपत्वेन स्वत एवं फल-