पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (यथाश्रयभाषाधिकरणम ३-३-२६) भाबनाकरणान्याहत्वात् विद्ययेति तृतीयाश्रुतिः वीर्यवत्तरवरूपफलं प्रत्येव करणले ब्रवीतीति वैषम्यात् । न च अवापि विद्यया करोतीति करोत्यर्थं प्रत्येव करणस्वं विद्यायास्तृतीया प्रतिपादयति ; न तु वीर्यवत्तरत्व मतीति वाच्यम् - ज्योतिष्टोमेन यत् करोति, स स्वर्ग इत्युक्ते स्वर्ग प्रत्येव तृतीया हेतुत्वं प्रतिपादयति । विद्यमा यत् क्रियते, तद्वीर्यवत्तरत्वरूपमिति तस्यार्थ इत्यभिप्रायः । नन्बसार्वत्रिकीति पुरुषार्थाधिकरणगुणसूले यदेवेति वाक्यस्य कर्मशेषत्वबोधकरवं पूर्व पक्ष्युक्तमभ्युपेल्य प्रकृतोद्रोथविद्यापरत्वं समर्थितम् । इह तु तस्यैव वाक्यस्य पुरुषार्थपरत्वमुच्यता इति चेन्न - तस्याभ्युपगम्यवादत्वेनादोषात् । पर्णताया अक्रियारूपत्वादिति । पर्णताया जुहूसंबन्धेऽपि अव्यापाररूपत्वात् फलनिष्पादकत्वं न संभवतीति तत्सिद्धये ऋतूपरागेण व्यापाररूपता संपादयितु जुइलिङ्गेन क्रतुमुपस्थाप्य तत्संबन्धबोधकशब्दः कल्प्यते ; जुहूशब्दम्यैव वा जुहूसंबन्विक्रतुलक्षकत्वमङ्गीक्रियते । इहोपासनाथा: स्वयं व्यापाररूपायाः स्वत एव फलपर्यवसाने संभवति किमुवीयाद्युपस्थापितऋतु- संबन्धबोधकशब्दकल्पनादिना तस्यापि ऋत्यर्थत्वमङ्गीक्रियते। न च-आधानस्याग्निभिः फलबत्वमस्ति; न तुपासनानां केन चित् फलवत्त्वमस्ति । अतस्तेषां ऋतुफलेन फलवत्यसिद्धयर्थ क्रनुसंबन्धबोधकवाक्यकल्पनापेक्षाऽस्तीति वाच्यम् - उपासनवाक्य, शेषस्यैव फलसमर्पकतथा विपरिणामसंभवे फलवकर्मान्तरान्वयबोधवाक्यकल्पनाशन- पेक्षात् । तस्माद्वाक्यशेषश्रुनाय तस्मै फलाय उद्गीथाद्याश्रयत्वविशिष्टोपासनविधि- रित्येव युक्तम् । एवमुद्गीथादिश्रवणस्य उपासनार्थतायामेव दृष्टार्थत्वं लभ्यते । निरालम्बनध्यानासंभवेन उगीश्रादेरालम्बनस्य उपासनेनापेक्षितस्यात् । उपासनश्रवणस्य उद्गीथाद्यर्थत्वे तु अदृष्टार्थता स्यात् । उपासनेनोदीधादिषु उत्पत्तिविकृतिप्राप्तीनाम- संभवेनादृष्टसंस्कारस्यैव वक्तव्यत्वेन (ल्वात !) दृष्टादृष्टप्रयोजनपर्यवसाध्यन्वयद्वयसंभवे दृष्टप्रयोजनपर्यवसाध्यन्वय एव ग्राह्यः । अत एवं 'खलेवाली यूपो भवती ' त्यस्य यः खादिरादिः प्रकृतितः प्राप्तो यूपः, तदनुवादेन खलेवाल्याकृतिविधाने अदृष्टार्थता- प्रसङ्गात् विधेदृष्टार्थत्वलिप्सया खलेवाल्या यूपकायें विधिराश्रितः । तस्माद्दोदोहन- विधिवत् आश्रित्यविधिरूपा अङ्गाबद्धोपासनेत्येव युक्तम् ; न तु पणताविधिवत् ऋत्वङ्गविधिरूपेति भावः । 108