पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

46 EL 12 श्रीरङ्गरामानुजमुनि विरचिता दर्शनाच्च ३-३-६४. 'उदारप्रभृतिवेदनानियमसिद्धिरिति । ऋत्विक्षु मन्तवैकल्ये यजमाने 'दक्षिणादानादिवैकल्ये-- अन्नहीनो दहेद्राष्ट्र मन्त्रहीनस्तु ऋत्विजः । आत्मानं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः ।। इत्युक्तन्यायेन तेषां प्राप्त दोषे प्रायश्चित्तप्रकाराभिज्ञो ब्रह्मा परिहरतीत्युक्त्या कथं वेदनस्यानियतत्वसिद्धिः । प्रत्युत, समाहारादिति सूत्रोक्तन्यायेन तस्कृतवैगुण्यस्य ब्रह्मवेदनेन समाधानदर्शनात् आवश्यकत्वमायातीति चेन्न -- ऋत्विायजमानयज्ञरक्षा ऋतुफलाप्रतिबन्धरूपैव । एवंरूपरक्षाया एव ऋविम्भिर्यजमानश्चाशासनीयत्वात् । तस्याश्चागोथमन्तरेण सिद्भर्दर्शितत्वादनियतत्वं सिद्धमिति । विश्च सर्वप्रत्ययोप- सहारे सबै सर्वत्रिद इति न विज्ञानवता ब्रह्मणा परिपात्यत्वमितरेषां संकीत्येतेति भावः ।। इति यथाश्यभावाधिकरणम् ॥ इति दशोपनिषद्भाष्यकारैः श्रीमदारामानुजमुनिभिर्विरचिताया श्रुतप्रकाशिकान्याख्यायां भावप्रकाशिकायां तृतीयस्याध्यायस्य तृतीयः पादः श्रीमते रङ्गरामानुजमहादेशिकाय नमः ।। श्रीरस्तु॥