पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥ श्रीमते भगवद्रामानुजाय नमः । श्रीमते रङ्गरामानुजमहादेशिकाय नमः । श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकायां (१) पुरुषार्थाधिकरणम् । तृतीयाध्याये चतुर्थयादे -- पुरुषार्थोऽतशब्दादिति बादरायणः ३.४.१. किमाचारशब्दादिलिङ्गानुगृहीतमिति । लिङ्गशब्दः प्रमाणमात्रपरः । आचारदर्शनादिरूपशेषत्वग्राहकप्रमाणानुगृहीतमित्यर्थः । एवमुत्तरत्रापि लिङ्गशब्दः प्रमाणमात्रपरो द्रष्टव्यः । इतरथा तच्छुतेरिति सूत्रोक्ततृतीयाश्रुतेरसंगृहीतत्व- प्रसङ्गात् । केचित्तु – यदेव विद्यया करोतीत्यादिरपि वर्तमाननिदेशतया अन्यार्थ- दर्शनरूपलिङ्गमेव । न चैव सति तच्छुतेरित्यस्य, 'लिङ्गमिदम् ; प्राप्तिस्च्यताम्। इत्यवतारिकाभाष्यतट्टीकाग्रन्थविरोध इति वाच्यम् -- अस्याभ्युपेत्यवादत्वादिति वर्णयन्ति । अनेकान्तिकत्वाभाव इति । आचारदर्शनादीनां विद्यायाः कर्मशेष- स्वानन्यथासिद्धत्वसाधकरव इत्यर्थः । नवाचारदर्शनादीनामनैकान्तिकरवाभावे विद्या ऋत्वर्थे त्येतावतैव फल- फलिभावस्य परिपूर्णतया तदनुगृहीतसामानाधिकरण्येनेत्यादिस्तरग्रन्थसन्दर्भो व्यर्थः । शेषत्वसिद्धथुपजीविनः उपास्यजीवभावावगमस्य कथं शेषत्वसाधकत्वम् , अन्यो- न्याश्रयप्रसङ्गात् । तथा हि आचारदर्शनादित्यादिपूर्वपक्षसूत्रपञ्चकोक्त- न्यायेन विद्यायाः कर्मशेषत्वे सिद्धे पार्वणहोमयोः कालाथैज्यात्वे आराद्रुप- कारकत्वप्रसङ्गात् सामवायिकस्वलिप्सया कर्मसमुदायेज्याल्वाङ्गीशरवत् , सामवायि. काङ्गत्वे सम्भवति आरादपकारकाङ्गत्वस्यान्याध्यत्वादिति न्यायेन कर्तृसंस्कारमुखेन