पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मान- श्रीरङ्गरामानुजमुनिविरचिता शेषत्वस्योचितत्वात् , 'आत्मा द्रष्टव्यः', 'आत्मानमुपासीन ' इति द्वितीयातव्य- प्रत्ययादिना आत्मसंस्कारस्वावगमात् आत्मनः कर्मसु कर्तृनया उपयोगसम्भवे सक्त- न्यायेन विनियोगभिङ्ग स्यायुक्तत्वात् कर्तृसंस्कारमुखेनोपासनस्य क्रतुशेषत्वं न्याय्यम्। अतः कर्मकर्तुर्वेदान्तविहितोपासनकर्मभूतब्रह्माभिन्नत्वम् । अतश्च तत्त्वमसि इति सामानाधिकरण्यनिर्देशोऽप्यनुगृहीतो भवतीत्येवं शेषस्वसिद्भयपजीवित्वात् जीव- ब्रह्माभेदस्य कथं तस्य शेषित्वोपपादककोटौ निवेशनमिति चेन अन्नाहुः न ह्याचारदर्शनादीनां लिङ्गत्वसद्भावमात्रे विद्यायाः क्रत्वर्थ- स्वसिद्धिः । लिङ्गानामनुप्राध्याप्रमाणसापेक्षत्वात् अनुग्राह्यस्य च मुपासीत । इत्यादिवास्यादन्यस्याभावात् तत्र चात्मानमित्यस्य कर्तृजीवाति- रिक्तविष्यत्वे वाक्यविधया क्रत्वर्थबोधकत्वासम्भवेन तस्य वाक्यस्य लिशानु- ग्राह्यशक्यविधया ऋत्वर्थत्वबोधकत्वसिद्धेः जीवस्य ब्रह्माभेदमन्तरेणासम्भ- वात् उत्तग्रन्थस्य साफल्यादिति । केचित्तु -- सत्य शेषत्रोपपाद्य प्रव जीव गाभेदः । तथापि न तत्साधितेन जीवब्रह्माभेदेन पुनस्तदेव साध्यते । येनान्योन्याश्रयः स्यात् । किन्तु शेषत्वसाधितेन जीवब्रह्माभेदेन कर्मकर्तृसंस्कार- मुखेन शेषत्वं साध्यते । तावत्पर्यन्तो हि पूर्वपक्षः । न शेषत्वमालपथकसितः । ‘शेषत्वात्पुरुषार्थवाद । इति सूत्रेऽपि कर्तृसंस्कारद्वारा शेषत्वं विवक्षितमिति भाष्या- भिप्रायात् । अस्याधिकरणस्य जीवनमाभेदप्रतिपादनपर्यन्तस्या तथैव सूत्राभिप्रायस्य वक्तव्यलादिति वदन्ति । प्रतिबन्धनिवृत्तिद्वारकमिति । अमृत इह भवति इति निर्दोषत्व- श्रवणादित्यर्थः । उभयमप्यभिहितमिति । प्रतिबन्धनिवृत्तिरिष्टप्राप्तिश्चेत्यर्थः । शेषत्वात् पुरुषार्थवादो यथाऽन्येत्रिति जैमिनिः ३-४-२. अधीत्य स्वास्यन्निति ज्ञानमपि कर्मशेषत्वेनावगतमिति । इदम् , आचारदर्शनादिति सूत्रपञ्चकोक्तस्योपलक्षणम् । अन्न अपिः भिन्नक्रमः । कर्मशेषत्वे- नाप्यवगतमित्यर्थः । तत्स्वरूपप्रतिपादन परमिति । तस्वरूपोपासनप्रतिपादनपर- मित्यर्थः । पृथक्फलसाधनवान कर्माङ्गत्वमिति । यद्यपि ऋत्वर्थस्य श्रुति- लिङ्गादिभिरवगतत्वादेव नास्याः शङ्काया अवतारः – तथापि विद्यायाः क्रत्वर्थत्वे,