पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- . भावप्रकाशिका पुरुषार्थाधिकरणम् ३-४-१) आत्मानमुपासीत ' इत्यादिवाक्यमपि प्रमाणयितुमिय शताऽवतारितेति द्रष्टव्यम् । यद्वा तेषां लिङ्गमात्रत्वेन प्रापकप्रमाणत्वासंभवादित्यत्र तात्पर्यमिति द्रष्टव्यन् । एतेन?] भाष्ये ननु च कर्तसंस्कारमुखेनेत्यादिशङ्कापरिहारौ नोपपद्यते । यदि हि 'यस्य पर्णमयी जुहूर्भवती ' त्यादिवत् 'आत्मानमुशासीत ' इत्यादिवाक्येन त्वर्थत्वं बोध्येत, तदा आत्मनो जुलादिवत् क्रत्वयभिचरिततया ऋतूपस्थापनसमर्थत्वात् कस्बपूर्वीयजुहूपलक्षकत्ववत् आत्मशब्दस्य क्रत्वपूर्वलक्षकत्वात् अवर्थश्वमित्येवं ऋत्वर्थत्वे वाक्य प्रमाणीकृत स्यात् । तदा चेमौ शङ्कापरिहारौ युज्यते । न हि तथा प्राक् वाक्यं प्रमाणतयोपपादितम् ; अपि त्वाचारदर्शनादिलिङ्गेन 'यदेव विद्यया । इति श्रुन्या च ऋतुशेषत्वमवगम्यते ; 'आत्मा द्रष्टव्य ' इत्यात्मशेक्ता चावगम्यते । ततश्चोभयसामन्त्रस्याय प्रोक्षणस्य प्रकरणावगतकत्वङ्गभावस्य द्वितीयाश्रुत्यवगतबीहि- शेषभावनिहाय ब्रीहिसंस्कारद्वारा अवर्थत्ववद उपासनस्यापि कर्मसंस्कारद्वारा कर्मार्थत्व निर्वोढव्यमित्यस्योपक्षिप्तत्वेन, 'आत्मानमुपासील ' इत्यस्य वाक्यविधया कर्मार्थत्वपर्यन्त तिवादकत्वस्यानुषक्षितत्वादिति केषाश्चिन्मन्दाशङ्का पराकला | अत्र वाक्यस्यापि, “ अत: कर्तुः संस्कारद्वारा विद्यायाः क्रतुशेषत्वम् (त्.)" इति भाष्ये प्रमाणीकरणात् । भाग्ये 'द्रव्यसंस्कारकर्मसु परार्थत्वात्कलश्रुतिर्थवादः स्यात्' इति । यस्य पर्णमयी जुहूर्भवति, न स पापं श्लोक शृणोति', 'यदाक्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्त', 'बत्मवाजानूयाजा इज्यन्ते, वर्म वा एतद्यज्ञस्य क्रियते धर्म यजमानाय भ्रातृव्याभिभूत्यै ' इत्यादिविधिविधेयेषु वाक्यप्रकरणावगतकत्यङ्ग- भावेषु पर्णतादिद्रव्येषु, अञ्जनादिसंस्कारेषु, प्रयाजादिकर्म च फलश्श्रवणमर्थवाद इति पूर्वतन्त्र निर्णीतम् । न ह्यन्यशेषमन्यशेष भवतीति । लौकिक्वैदिक- कर्मसाधारणस्यात्मनो वैदिककाव्यभिचरितत्वं न सम्भवतीत्यर्थः । तदसाधारणमेव हि तदममिति । तस्मत्यभिज्ञापकमित्यर्थः । आचारदर्शनात् ३-४-३. गुणमुख्ययोर्विरोध इति । अङ्गप्रधानयोःक्षणीयासोमयोः, पशुना सोमेन वा यजेत, सोऽमावास्यायां पौर्णमास्यां बा यजेत । इत्येकस्मिन् पर्वकाले प्रसक्तौ प्रधानस्यैव पर्व कालकर्तव्यस्त्वम् , में दीक्षणीयाया इति पूर्वतन्त्रे . यष्टया "