पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६२ श्रीरङ्गरामानुजमुनिविरचिता निर्णीतत्वात् सोमयागेषु सुत्याप्रयोगस्याहोरात्रन्यापित्वात् विद्यायाश्चान्वहं शीलनीय- तया विरोधसद्भावात् विद्यायाः प्रधानावे तत्यागेन कर्मणामनुष्ठानं नोपपद्यत इत्यर्थः । ननु विद्ययेति तृतीयाश्रुतेन शेषलप्रमाणत्वम् | तृतीयया साधनत्वमान्न- प्रतिपादनेऽपि समीहितसाधनस्वरूपशेषत्वाप्रतिपादनादित्याशङ्कय-श्रुतिमानस्य तत्रा- प्रमाणत्वेऽपि श्रुतिलिङ्गादिसहितचोदनायाः प्रमाणत्वं सम्भवति, 'कर्तुरसमीहितं येन सिध्यत्यङ्गं तदुच्यते । प्रमाणं च विधिस्तत्त श्रुतिलिङ्गादिसंयुतः ॥' इत्यभियुक्तोक्तरित्यभिषयन्नाह - आगमप्रमाणस्य श्रुतिलिङ्गादयोऽनुग्राहका इति । श्रुतिलिङ्गाद्यनुगृहीतस्य विधेः प्रमाणत्वमित्यर्थः । तच्छ्रुतेः ३-४-४. भाष्ये नेयं श्रुतिरिति । विद्यापदश्रुतिरित्यर्थः । न तु प्रकृना तृतीयाश्रुतिरिति भ्रमितव्यम् । भाष्ये विद्यामानविषया हीयं श्रुतिरिति । य एव वहिमान् देशः स एव धूमवानितिवत् , यदेवेति सर्वनामावधारणाभ्यां हि व्याप्तिस्वगम्यते । यदेव कर्म करोति-यद्यत् कर्म करोतीत्यर्थः । ततश्च कर्ममात्रे विद्या साधनत्वेन विधी- यते । ततश्च विद्यायाः सर्वकर्माङ्गत्वं विद्याशब्दस्योगीथविद्यामानविषयत्वे नाव- करत इति विद्याशब्दस्य सर्वविद्याविषयकारवमेव वक्तव्यमित्यतोऽपि सर्व विषयत्वं विद्याशब्दस्येति द्रष्टव्यम् । तद्वतो विधानात् ३-४-६. आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्त्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधत् ' इति छान्दोग्ये श्रूयते । आचार्यकुलबासी सन् वेदमधीत्य यथाविधानम्-स्मृत्युक्तनियमैर्युक्त इत्यर्थः-स्मृत्यु- कांनेयमेष्वपि गुरुशुश्रूषायाः प्राधान्यमुच्यते गुरोः कर्मातिशेषेणेति । कर्मानवरुद्ध- कालेन वेदमधीत्येत्यन्चयः --- अभिसमावृत्य = गुरुकुलान्निवृत्येत्यर्थः - कुटुम्बे गार्हस्थ्याश्रमे स्थित्वा, गार्हस्थ्येऽप्यविस्मरणार्थ वेदाभ्यासं कुर्वन्नेव धार्मिकान् विद- धत् = पुत्रशिष्यादीन् धर्मनिरतान् कुर्वन् , धर्मोपयुक्तानर्थान् सम्पादयन्निति वा ।