पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( पुरुषार्थाधिकरणम् ३.४-१) एवमर्थज्ञानपर्यन्ताध्ययनवतः कर्मसु निरतेविधानात् अर्थज्ञान कर्माङ्गमित्येवं परे वर्ण- यन्ति । आचार्यास्तु भुक्त्वा सानन्दमास्त इत्यादौ सानन्दमित्यम्यावेतु योग्यत्वेऽपि न पूर्वनिर्दिष्टेन क्त्वाप्रत्ययान्तेनान्वयः, अपि तूतरेण आस्त इत्यनेनैवेत्येवं दर्शनात , यथाविधानं गुरोः कातिशेषेोत्यस्य न पूर्वेण आधीत्येत्यनेनान्वश्रः; व्यवहिनान्वयदोषप्रसङ्गश्च । अतो ब्रह्मचारी वेदमधीत्य, 'उपेत्याहित्य गुरयेऽनुज्ञातो दारान् कुर्वीत', 'विद्यान्ते गुरुरर्थेन निमन्व्यः कृत्वानुज्ञातस्य वा स्नानम् ' इत्यादि- स्मृत्यनुसारात् , 'आचार्याय प्रियं धनमाहृत्य प्रजातन्तु मा व्यवच्छेत्सीः ' इत्यादिश्रुयनु- साराच्च गुरॉयथाविधानम् आचार्यस्य नियमनमनतिलय तस्य कर्तव्यं कर्म, अति- शेत्रेण = अ शेषेण अभिसमावृत्य = निर्वत्र्य इत्येवाओं वक्तव्य इत्यभिप्रेत्य निश्शेष- मितीति व्याचक्रुः । अतिशेषेणेत्यत्रातिर्थाभावे वर्ततेः अतिमर्यादोऽमर्याद इत्यर्थद- शनात् । न च 'गुरोः कर्मातिशेषेण(कर्मशेषेण!)जपेत् । इति स्मृत्यैकरूप्यात् तद्वदेव कमतिशेषशब्दस्यापि कर्माति (व:) शिष्टकालपरत्वं वक्तव्यमिति वाच्यम् --- शेषाति- शेषशब्दयोमिन्नार्थत्वेन तत्प्रत्यभिज्ञाभावात् तस्य नैष्ठिकब्रह्मचारिविषयत्वात् अस्म- दुक्तार्थस्य स्मृत्यनुगुणार्थत्वात् आचार्योक्तार्थत्वमेव वक्तुं युक्तम् । अविवक्षितार्थ- त्वादीति । तात्पर्यासियादिदोषपरिहारार्थमित्यर्थः । अर्थावबोधमुहिश्य शब्दोचारणे हि लोके क्यानां तात्पर्यमगम्य तन्नि हाय मुख्यार्थासभने लक्षणादिक कल्प्यते । न तूञ्चारणमात्रेण ! अन एव, गौरश्वः पुरुषो हस्तीति पदानामुञ्चारणमात्रेण लक्षणा न कल्प्यते । यदा विशिष्टार्थबोधमुद्दिश्य तेषामुच्चारणमिति तात्पर्यमवगम्यते तदैव तन्निर्वाहा) अयं गौर्बलीवर्दः, अश्वो वेगवान् , पुरुषो नियतचेष्टः, हस्ती महाबल इत्यश्चादिपदानां लक्षणाध्याहारादिकं कल्प्यते । एवं च वेदवाक्यानामर्थावबोधमुद्दे- श्योच्चारणाभाचे तात्पर्या सिद्ध्या तन्निर्वाहार्थलक्षणागौणवृत्त्याच्याहारव्यवधारणकल्पनो- च्छेददोषप्रसङ्गादबश्यं वेदेऽप्यर्थावबोधमुदियोचारणस्य वक्तव्यावात् वेदे च लोक इव रामप्राप्तस्यार्थावबोधोद्देश्यकोच्चारणस्याभावात् विधिप्रयुक्तमेव तदाश्रयणीयम् । विधिश्चाध्ययनविधेरन्यो न दृश्यत इति तेनैवार्थावबोधमुद्दिश्य गुरुमुखो- चारणानूञ्चारणरूपमध्ययन विधीयत इत्यकामेनापि स्वीकार्यम् । तत्समानार्थत्वात् आचार्यकुलाद्वेदमधीत्य इत्यत्रापि तथोक्तमिति भावः । स्नात्वा जुहुयादिति । --