पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनि विरचिता क्त्वाप्रत्ययेन सति सम्भवे कर्तृकारकैक्यावगमात्तस्य च प्रयोगैक्य एव सत्यत् प्रयोगैक्यस्य चाङ्गाङ्गिभावमन्तरेणानुपपत्तेः, कालार्थसंयोगस्य सति गत्यन्तरे अयुक्त- स्वाञ्चेति भावः । नन्वङ्गाङ्गिभावे सत्यपि औपनिषदब्रहाविद्याया एवाणिस्त्वं किन स्थादित्यत आह - न हि ऋतुज्ञानस्येति । पूर्वभागार्थज्ञानतुल्यत्वादौपनिषदार्थ- ज्ञानस्येत्यर्थः । अधिकोपदेशातु बादरायणस्यैवं तदर्शनात् ३-४-८. ननूपात्तेषु वेदान्तवाक्येषु यः सर्वज्ञ इत्यादीनां स्वरूपोपदेशपराणां सत्त्वेन वेदनोपदेशवाक्येविति भाष्ये कथमुच्यत इत्यत आह-उपासनवायो- पयोगित्वादित्यादिना ! तुल्यं तु दर्शनम् ३-४-९. अङ्गित्वे हननुष्ठानं नोपपद्यत इति । नन्वङ्गत्वेऽप्यननुष्ठानं नोपपद्यत एव । यदि चानभिसंहितफलकर्मण एवारत्वम् ; न तस्याननुष्ठानमिति--तहिं तस्यै- बाहित्यमवस्त्विति चेत , तथा पूर्वपक्षिणोऽनभिप्रेतत्वादिति भावः । असार्वत्रिकी ३-४-१० भाप्ये प्रस्तुतोदीथविशेषनिष्ठत्वादिति । विशेष्यत इति विशेषः । उहीथशब्द उद्गाविद्यापरः । ततश्च यच्छब्दस्योगोथविद्या क्रियमागसोमयाग- निष्ठत्वादित्यर्थः । केचित्तु उगोथाल्यकर्म परत्वेऽपि न दोषः । न च प्रवलकर्मान्तरा- प्रतिबद्धफलजनकत्वरूपं वीर्यवतरस्वमुद्गीथे न सम्भवति, उद्गाथस्याङ्गत्वेन फलजन- कत्वापसत्तेतरिति वाच्यम् -- कारणानुग्रहस्यैवाङ्गकार्यवेन तादृशफले वीर्यवत्तरत्वस्य प्रबलकर्मान्तरामतिबद्धस्य सम्भवादित्याहुः । एकपदसामर्थ्य हि श्रुतिरिति । अत्रैकपदमसहायवाचि; अभिधातुं पदेऽन्यस्मिन्निरपेक्षो रवः श्रुतिः ' इत्यभियुक्तोक्तः । स्वत एव निश्चयसमर्थत्वमिति यावत् । इयांस्तु विशेषः – समभिन्याहृतपदान्तर- सापेक्षत्वे न श्रुतित्यमित्यध्वरमीमांसका: । सोचकाभावात् प्रापकप्रमाणान्तरनरपेक्ष्य- मपि श्रुतिकोटौ निविशत इत्याचार्याणामभिप्रायः । अत एवानुवादस्सन्निहित परामर्शीति वाचोयुक्तियुक्तिमती । अनुबादस्यापि श्रुतिरूपत्वे सन्निध्यनुरोधेन सङ्कोचस्य क्लेशेन G .