पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- भावप्रकाशिका (पुरुषार्थाधिकरणम् ३-४-१) ८६७ बानभ्युपगमात् । न चैतत् परेणापि कर्मभेदाभ्युपगमेन सुवचमिति वाच्यम्-- जैमिनिना उपनिषदां जीवातिरिक्तब्रन्नपरत्वमपहृत्य देहातिरिक्तात्मपरत्वमभ्युपगम्य तद्वेदनं पारलौकिकसर्वकर्माङ्गमित्यङ्गीकृतत्वात् तन्मते विद्यानिवर्त्यकर्मणामपि पारलौकिकात्मवेदनसाध्यवाबिशेषेण विद्या प्रत्ययङ्गित्वस्य बक्तव्यत्वात् अङ्गेनाङ्गिन उमदो न सम्भवतीति भावः । परामर्श जैमिनिरचोदनाचापवदति हि ३-४-१८. भाष्ये प्रकृतं प्रणवेन ब्रह्मोपासनं स्तूयत इति । प्रकरिष्यमाण- मित्यर्थः । 'ओकारेण सर्वा बार संतृण्णा । ओंकार एवेदं सर्वे : मित्युत्तरत्र प्रणवोपासनस्य विधिसितत्वादिति भावः । भाष्ये तेषामाश्रमाणामिति च्छेदः । भनु परामर्शेऽप्याश्रमा गम्यन्त एव । सत्यं गम्यन्ते, स्मृत्या चाराभ्यां तु तेषां प्रसिद्धिर्न प्रत्यक्षया श्रुत्या । प्रत्यक्षश्रुतिविरोधे चानादरणीयत्वम् , 'विरोधे स्वनपेक्षं स्यात् । इति नयेन सिद्धम् । अथ वा अन्धपवादिकौनधिकृतविषया स्यात् । ननु गार्हस्थ्यस्यापि परामर्शमात्रम् , 'यज्ञोऽध्ययनं दानम् । इति । ततश्च सदपि न सिध्येदिति चेत् - सत्यम् । एवं गृहस्थं प्रत्येव सर्वकर्मणां श्रुतिषु विधानात् श्रुतिपसिद्धमेव तदस्तिस्वम् । भाष्ये ये चेमेऽरण्ये. देवयानविधिपरत्वादिति । तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽषिमभिसम्भवन्ति ' इति देवयानविधिपरत्वादित्यर्थः .. 'एतदेव प्रवाजिनो लोकमिच्छन्तः प्रवजन्ति ! इत्ययं तु लोकसंस्तवः ; न पारिवाज्यविधिरिति भावः । भाष्ये योऽग्निमुद्वाखयते इत्यादिकेलि । आदिशब्देन ' आचार्याय प्रियं धनमाल्य प्रजातन्तु मा व्यवच्छेत्सीः', 'नापुलस्य लोकोऽस्ति । इत्यादि गृह्यते । . अनुष्ठेय बादरायणः साम्य श्रुतेः ३-४-१५. भाध्ये अथ गृहस्थाश्रमस्यानुवाद इति । अन्यतः प्राप्तेरभावेनानुवाद- वेन · यद्यस्यैव विधिपरत्वमभ्युपेरते, तदितरेषामपि समानमिति भावः । परामर्शपक्षे विधानपक्षे च........ तुल्यमित्याद्युपसंहारभाष्यानुमारात् । न च स्तुत्यर्थतयाऽनुवादसाम्यं प्रमाणान्तरप्राप्तिमाम्यं चोभयं सूत्राभिप्रेतमिति टीकाविरोध इति वाच्यम् - वर्षकृत दुर्भिक्षमित्तिवत् : प्रमाणान्तरप्राप्त्यभावकृतं - .