पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( पुरुषार्थाधिकरणम ३-४.१) श्रुतिरिति वक्तुं शक्यम् -- अविशेषश्रवणात । जबालश्रुतौ, ‘वती वा अवती वा स्नातको वा अखानको बा उत्सन्नामिरनग्निको वा' इति पृथविधान त् । अतः 'प्रतिपन्न गर्हस्थ्यं प्रमादानज्ञानाद्वा उद्वासयितुं प्रवृत्तं प्रति वा अविरक्त प्रति वा, वीरह! वा ' इति श्रुतिरुपपन्नेति भावः । परेवित्यादि । ऐकाधिकरण्यमिति । यद्यपि करुपतरावधिकरणभेदः सूचित', तथापि भाष्यमामल्योरनुक्तयादेवमुक्तामेति द्रष्टव्यम् । इत्यादी विषय इति । विषयवाक्य इत्यर्थः । देवदत्तयज्ञदत्तौ मन्दप्रज्ञावित्यादि । अन्यतरः कश्चिदित्यर्थः । ननु च शाङ्करमाध्ये, " न येवं भवति देवदत्तयज्ञदत्तौ मन्दप्रज्ञा अन्यतास्तु त्योर्महाप्राज्ञ इति । भवति स्वेवम्-देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ विष्णुमित्रस्तु महाप्राज्ञः" इति ईशोत्यसम्भवपरतैव प्रतीयते । न वोदशीमुक्तिमभ्युपगम्य यज्ञदत्तस्योच्यमानत्वनिषेधपरत्वमिति चेन्न - न ह्येवं भवति हिस्से ककरणम् इत्युक्ते. बढेः सेककरणस्वमिन्युच्यमानत्वं न सम्भवतीत्यस्वार्थस्य फलिनस्वदर्शनात् फलितार्थ- मादायानुकादोपपत्तेः । किञ्च दान्तिके, 'लय एते पुण्यलो का भवन्ति ब्रह्म- संस्थोऽमृतत्वमेति । इति श्रुतायुक्तम्सिद्धनया उक्ति सिद्धवत्कृत्यैव ईदृशोक्त्या उच्य- मानत्वं न पानिर्दिष्टानाम् ., अपि तु ततोऽन्यस्य परिव्राज इत्यस्मिन्नर्थ एव दृष्टान्तस्योपन्यसनीयतया दृष्टान्तेऽप्युक्ति सिद्धवत्कृत्यैव प्राकानर्दिष्टानां नोच्यमानत्वं अपि तु ततोऽन्यस्यैवेत्येवमुपन्यासस्योचिसत्वेन तत्रैव शङ्करभाष्यस्यापि तात्पर्यमभिप्रेत्य तथानूदिनमिति द्रष्टव्यम् । प्रकृताश्रमत्रयेनि । केवलयौगि- कानामागेयोन्यायेन (३-२-८) सन्निहितगामित्वादिति भावः । कालभेदेनेति । पूर्व मन्दप्रज्ञस्यैवेदानी शास्त्राभ्यासपाटबवशेन महाप्राज्ञस्वसम्भवादिति भावः। धय॑न्तरोप- स्थापकेति । अन्यतरश्चासौ शब्दश्चान्यतरशब्दः, न स्वन्यतर इत्ययं शब्द इति भ्रमितव्यम् । ततश्च निर्दिष्टमन्दप्रज्ञापेक्षया धर्नान्तरोपस्थापकस्ववाक्यनिर्दिष्ट- पदद्वयान्यतरभूतमहत्पदसमभिव्याहारादित्यर्थः । यौगिकस्येति । यौगिकत्यापी- त्यर्थः। इह तु ब्रह्मसंस्थशब्दातिरेकेणेति । निम्वेवाश्नमेषु ब्रह्मसंस्थश्चेत्, अमृत- खभाग भक्तीत्यर्थकत्वेऽपि विरोधाभावादित्यर्थः । किञ्च ब्रासंस्थपदस्य चतुर्था- श्रमपरत्वे, 'ऊर्ध्वरेतस आश्रमा न सन्ति ; त्रयो धर्मस्कन्धा इति तु विधेयबहा- दृष्टम् ।