पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (स्तुतिमात्राधिकरणम ३-४-२) गमकत्वम् । 'ओमित्येतदक्षर मित्यनेनैव उपासनविषयसमर्पणादिलि द्वितीयः पक्षः । नत्र द्वितीयपक्षे उपासनानो सद्भावेऽपि प्रथपपझे उपासनाविध्यभावात् अत्र प्रति- पादितमुपासनविधिपरत्वमित्येतत् तदभियायेणेनि द्रष्टव्यम् । स्तुतिर्हि प्रमाणान्तरप्राप्तेति । 'विरोधे गुणवादः स्यात् अनुवादोऽधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः । इति वाक्यविद्भिस्तत्वात् मानान्तरविरोधे गुणवादः, यथा यजमानः प्रस्तर', 'प्रावाणः प्लवन्त ' इत्यादौ, मानान्तरावधारितेऽनुवादः, यथा, पुरन्दर' इत्यादौ । अप्राप्तगुणविधानेन वेति । अप्राप्तधर्मोपदेशेन भूतार्थ- वादेनेत्यर्थः । अतश्च कथं गुणविधायकस्यार्थवादान्त व इति शङ्का न कार्या । अत्र तु तथा सन्निहितस्वाभावेनेति। एतद्राह्मणान्येव पञ्च हवींषि । इत्यादि- वचनबलात् पञ्चसञ्चरविध्येकवाक्यत्वमिति भावः । वजहस्तः भावशब्दाच ३-४-२२, भाष्ये विधिपरत्वमेव न्याय्यमिति । विस्पष्टविधिविभक्तिश्रवणात् ध्यानपर्यायस्योपासनस्यामासत्वाचोपासनविधिपरस्वमेव न्याय्यम् । ततश्च समभि- व्याहृतोपासनविध्येकवावयत्वे सति नासमभिध्याहृतोपासनविध्येकवाक्यत्वं युक्त- मित्यर्थः । नन्वस्तु समभिव्याहृतोपासनविधिनैकवाक्यत्वम् ; तथापि स्तुत्यर्थ- त्वेनान्वयः किं न स्यादिति शङ्कामुपसंहारच्याजेन निरस्यति भाव्ये तस्यादुपासन- विधानार्था एताः श्रुतय इति । उपास्यत इत्युपासनम् , कर्मणि बहुरुवचनाल्ल्युत्। उपास्यविधानार्था इत्यर्थः । यद्वा उपासने विषयविधानार्था इत्यर्थः । विषयसमर्पकतया प्रवृत्तिविशेषपरत्वे संभवति व्यर्थप्रयासस्तुत्यर्थत्वकल्पनाऽ- योगादिति भावः । इति स्तुतिमात्राधिकरणम् । उपासन-