पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

भावप्रकाशिका (अग्नीन्धनाद्यधिकरणम् ३-४-१) ८७३ क्रमगतसर्वश्रुतेः सोचकापेक्षासत्त्वात् वाक्यशेषेण चापेक्षितसमर्पणात् बाक्यशेषगतेपवारलयानेषु सतोचः । यथा 'अर्थतस्य हारियोजनम्य सर्व एवं लिप्सन्ते ' इत्यत्र सर्वशन्तस्यासचिनयर्वपरत्वासंभवेन सङ्कोचकापेक्षाया ज्योतिष्टोमे प्रकृतेषु ऋत्विक्ष्वेव सङ्कोच', न सर्वेषाम् । किश्च यद्यपक्रमगतसर्वश्रात्या आख्यानानां सर्वेषां गृहीतिः स्यात् , तदा 'मर्नुर्वैवस्वतो राजा' इत्यादिवाक्यशेषविशेषणमनर्थकमेव स्यात् । न चार्थवत्वे संभवत्यानर्थक्यं युक्तम् । अतः सङ्कोचः । 'यो वै त्रिवृदन्य' मित्यादिवाक्यशेषस्तु संयोगमात्रेणैवोपपद्यते, अन्यशब्देन चाविशेषः प्रतीयते । त्रिवृदादीनामनेकस्तोमकेण्वयि विनापि व्याप्त्या संयोगमात्रेण दीपकत्वं संभवतीति वैषम्यमस्तोति द्रष्टव्यम् । तथा चैकवाक्योपबन्धात ३-४-२४. हिरण्यस्यादक्षिण्यत्यवाक्येनेति । रजतहिरण्यस्येत्यर्थः । 'तस्माद्धिरण्य' मिति श्रुतेरिति भावः । इति पारिलवार्थाधिकरणम् । (४) अग्नीन्धनाधिकरणम् अत एव चारनीन्धनाद्यनपेक्षा ३-४-२५. भाष्ये ऊर्ध्वरेतसो यज्ञाद्यमावादिति। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते । इति विद्यासम्बन्धबोधवाक्यानामान्यपर्यमाश्रयणीयमिति भावः । यदि चावश्यमू-रतसा विद्यासम्बन्धो वक्तव्यः, तर्हि अङ्गानुपकृतविद्यया फलानवाते अङ्गमूलयज्ञाधनुष्ठानस्यावश्यकत्वात् तदर्थ दारान्तरं परिगृह्याधानं कर्तव्यम् । न च द्वारपरिग्रहे सति ऊर्ध्वरेनस्त्वविरोधापत्तिः। 'सोऽयमुपनयनादधीत होमसंयोगात् : (इति) पूर्वतन्त्राधिकरणपूर्वपक्षरीत्या पूर्वपक्षः (क्षात!)। तन्न हि उपनयमाङ्गहोम आहवनीये कर्तव्य । आस्मन् दारपरिग्रहे सति उपनयनविधिपूर्वकविद्याग्रहणोचरकालविहितो दारपरिहः प्रजाथों भविष्यतीति पूर्वपक्षः प्रवर्तितः । तद्वदनापि । न चाश्रमधर्मरेव विद्यामसिद्धेयज्ञाद्यनुष्ठानार्थमाधानदारसंग्रहयोराक्षेपो न प्रामोतीति वाच्यम् -- यज्ञेने 110