पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७४ ओरङ्गरामानुजमुनि विरचिता त्यादितृतीयाश्रुया विशिष्य यज्ञादीनामपि विद्यावधियानात् । कर्मत्यागश्रुतिस्तु विद्याननकर्मविषया । सिद्धान्तम्नु, केवलपुत्रार्थमिव केवलधर्मार्थं दारसंग्रहायोगाद 'धर्मे वाय च नातिचरित्या ' इति स्मृतेः । भीष्मस्य दु धर्मप्रजोभयाथै दारपरि- महे निवृत्त एव पितृमीत्यर्थपूवरेतस्त्वप्रतिज्ञया पुत्रोत्पादनानिवृत्तौ सत्या दाराणां धर्मार्थत्वमात्रमवशिष्टमिति तेन यज्ञाद्यनुष्ठानम् ; न तूर्ध्वरेतस्त्वपतिज्ञानन्तरं केवल- धमार्थदारसंग्रहः । श्रुनिम्मृनिसिद्धनिकेतनत्वादिसंन्यासधर्मपालोचनया न संन्यासिनो दारपरिग्रहाठिकमुपपद्यत इति भावः । विद्यया फलोत्पत्तौ न कर्मापेक्षेति । क्रत्वर्थत्वा भावेन म्बोषिभूतकापेक्षा जास्तीत्यर्थः । निगमनप्रयोजनमाह--इदं च निगमन- इति अग्मोन्धनाधिकरणम् । मिति । (५) सर्वांपेक्षाधिकरणम् । -- 1 . सर्वापेक्षा च यज्ञादिक्षुतेरश्वत्रत् ३-४-२६. बज्ञादिनां ज्ञानसाधनत्रे सत्येवेत्यादिमाप्यम्युक्तम्, प्रकृतिप्रत्यय योमध्ये प्रत्ययार्थप्रधान्येनेच्छायामेव तृतीयया साधनस्वस्तीतेरित्यत्राह-परमसाध्ये- च्छपा विनेत्यादि । नवन्नद्वेषेण कार्य प्राप्तस्य तत्परिहारायानविषयोन्मुख्यलक्षणाया- मिच्छायां सल्यामपि उस्कटॉजीर्णादिप्रयुक्तधातुवैषम्पदोषात् तत्र प्रवृत्तिपर्यन्ता रुचिर्न जामल इति तद्रोचकौनपत , 'निरतिशयानन्दं ब्रह्म ; तप्राप्तौ विद्यासाधनमित्यर्थ प्राचीनबहुजनमानुष्ठितानभिसंहितनित्यनैमित्तिककोपसजातचित्तप्रसादमहिना सम्पन्न विश्वासस्य पुरुषस्य ब्रह्मावाप्तौ तसाधनविद्यायां च औन्मुस्त्रलक्षमायामिच्छायां सत्यापि अनादिभक्सञ्चितानेकदुरितदोशेण, आस्तिककामुकस्य हेयकर्मणीय, विषयभोगमावण्यं सम्पादयता प्रतिबन्धाद्विद्यासाधने श्रवणादौ प्रवृत्तिपर्यन्ता रुचिर्न झायत इति प्रतिबन्धादिनिरासपूर्वकमिच्छासम्भादकयज्ञादिविधानमुपपन्नतरमिति चेत् - - सत्यम् ; बचनेन वक्येन कर्मणामिच्छादिसंयोगः प्रतिपाद्येत, तदा श्रुत- निर्वाहाय कथञ्चिदियं प्रणाख्याश्रीयेत । न तदस्ति । प्रकृतिप्रत्ययार्थयोर्मन्ये