पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

भावप्रकाशिका (दामदमाद्यधकरणम् ३-३-६) ८७५ प्रत्ययार्थस्य प्राधान्यमित्यौपगवादिष्टसामान्यन्यायापेक्षया, 'इच्छाविषयतका शब्दबोध्य एव शाब्दसाधनान्वय । इति स्वर्गकामादिवाये बलप्तविशेष न्यायस्य बलीनस्त्यात् । 'अधन जिगमिपति, असिना जिघांसति । इत्यादिलौकिक्रपयोगे च अश्वादिरूपसाधनस्य, तद्विजिज्ञासितव्यम् , निदिध्यासितव्यम् इत्यादिवैदिकमयोगे च तव्यप्रत्ययार्थीभूनविधेश्च सन्प्रत्ययाभिहितेच्छाविपय एव गमनादावन्वयत्व क्लप्तत्याच प्रकृत्यमिहितायां विद्यायामेवान्वयस्थ क्लप्त यादिति भावः । उत्पत्तावपेक्षैव सूत्रप्रतिपायेति । यद्यपि परैः, पूर्वसूत्रे फलोत्पत्यवनपेक्षत्वम् , अस्मिन् सूने विद्योत्पत्तौ कापेक्षितत्वमित्येवोक्तम् - तथाप्यश्ववदित्यत्र यथाऽश्वो न लाशलाकर्षणे विनियुज्यते, स्थचर्यायां तु युज्यते -- एवमाश्रमकर्माणि विद्यया फलोत्पत्तौ नापेक्ष्यन्ते, उत्पत्तौ स्वपेक्ष्यन्त इति भाप्योक्तत्वात् फलोत्पत्ताबनपेक्षाप्यस्मिन्नधिकरणे प्रतिपद्यत इत्यभिप्रेत्य दूषणमुक्तमिति द्रष्टव्यम् । अनन्तराधिकरणपूर्वपक्षहेतुरिति । आयसूत्रापेक्षयानन्तराधिकरण इत्यर्थः। इति सर्वापेक्षाधिकरणम् । [६] शमदमाद्यधिकरणम् शमदमाधुपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतमा तेषामध्य वश्यानुष्ठेयत्वात् ३-४-२७. दूषयति - परेवित्यादि । शङ्का तावदयुक्तति । तथापीति वैयर्थ्यमिति । यज्ञाद्यपेक्षयैव शमदमादेविरोधासक्तिसक्वेन तदनपेक्षया. साकं विशेधाभावात् विरोधसूचकस्यापीत्येतस्य वैवयम् । ततश्च तथापीत्यस्य यज्ञाद्यपेक्षायामपीत्येवार्थः, न तु यज्ञाद्य[न?]पेक्षत्वेऽपीत्यर्थ इति भावः । पूर्वसनविवाक्षितम्येति । स्तुत्यर्थपरत्वनिरासस्येत्यर्थः । . ततोऽपि चरमिति । विविदिषासंयोगसमर्थनपरे पूर्वसूले स्तुत्यर्थत्वनिरासस्यापेक्षिततया तत्रैव तन्निरासस्योचितत्वादिति भावः । इति शमदमाद्यधिकरणम् ।