पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७६ औरङ्गरामानुजमुलिविरचिता [0] सर्वान्नानुमत्यधिकरणम् sosoppe न काञ्चन 1 सर्वान्नानुमतिश्च प्राणायथे तद्दर्शनात् ३-४-२८. अस्ति न वेति विचार्यत इति । प्राणविदामिति शेषः । प्राणविद्या. । निष्ठस्यापीति । ननु वामदेव्योपासननिष्ठस्य, 'न काञ्चन परिहरेत् । तद् व्रतम् । इति सर्वध्यपरिहारानुमतिदर्शनात् किंपुनन्यायेन ब्रह्मविदामपि सर्वध्यपरिहार- प्रसङ्गः । यदि च विद्यान्तरप्रकरणे श्रुतस्य विधान्तरान्वये प्रमागाभावात् वामदेव्यो- पासनाङ्गस्य सर्वस्त्रपरिहारस्य न ब्रह्मविदः प्रसक्तिरस्तीति, तर्हि प्राथविद्याअभूतस्य सर्वान्नीनवस्य न ब्रह्मविदि प्रसक्तिरस्तीति चेन्न - रामदेव्योपासने, परिहरेत् तद् व्रतम् । इति सर्वव्यपरिहरणे विस्पष्टविधिविभक्तिभवणेन विधेयत्वाव- ममेऽपीह ताशविधिप्रत्ययाभावेन सर्वान्नीनत्वस्याहरवेन विधानाभावेन एवं विदि पापं कर्म न लिप्यते । इत्यादिवत्, न ह वा एवंविदि किञ्चनानन्नं भवति । इत्यत्रापि अभक्ष्यभक्षणकृतदोषाभावमात्रप्रतिपादनपरत्वे सिद्धे- किमिदं कामकृते- ऽध्यभक्ष्यभक्षणे दोषाभावप्रतिपादनपरम् , उत प्रामादिक एवेति चिन्ताया एवामिन्न- धिकरणे प्रवृत्ततया तत्र च प्राणविद्यायाः कामकारस्थलेऽपि अन्नदोषापर्शरूपफल- सामय पूर्व पक्षियोगक्षिप्ते सति – यदि प्राणविद्याया अपीदृशं सामर्थ्यम् , तर्हि सर्वविद्याश्रेष्ठाया ब्रह्मविद्याया अपि कामकृताभक्ष्यभक्षणकृतदोषासंस्पर्शहेतुत्वं किं न स्यादिति यदि कश्चिचोदयेत् , से प्रति तदपि पूर्वपक्षिणो नानिष्टमित्येवंपरत्वादस्य ग्रन्थस्य न दोषगन्ध इति ध्येयम् । पूर्वपक्षेऽभिप्रेतेति । प्राणविद्याविषयविचारे ने ब्रह्मविद्यायाः सङ्गतिर स्त, तमालपर्यवसितत्वादस्य विचारस्य । ब्रह्मविंदः सर्वान्नीनत्वसदसद्भावयोः पूर्वोत्तरपक्षफलत्वमिति शक्यं वक्तुम् -- सिद्धान्ते ब्रह्मविदः सर्वान्नीनत्वाभावस्य प्राणविदः सर्वान्नीत्नाभावे साधकत्वोपन्यासेन फलत्वा- सम्भवात्। ब्रह्मविदामपीति । ननु ब्रह्मविदां दोषसत्त्वेऽपि न ह वा एवंविदि किञ्चनानन्नं भवति इति प्राणविदां दोषाभावकीर्तनात् नाभक्ष्यभक्षणदोष इति चेन्न ‘एवंविदि पाप कर्म न लिष्यत इति ब्रह्मविद्विषयेऽपि दोषाभावदर्शनसाम्यात् । - ,