पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७७ 4 4 भावप्रकाशिका ( सर्वान्नानुमत्यधिकरणम् ३-४-७) यदि च, 'नाविरतो दुश्चरितात् । इति दुश्चरितस्य निषिद्धनया तद्वचनं प्रामादिक- विषयमिति, तर्हि, 'प्राणसंशयमापन्नो योऽन्ननत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्नमिवाम्मसा" इति, ‘तस्माद्ब्रह्मणः सुरां न पिवेत् ' इत्यादिक्लप्तसाभा-यशास्त्राविरोधेनैव, मह वा एवंविदि इति शास्त्रस्य क्रुप्यविधिभावस्य निर्वाह्यत्वात् । यद्वा नायं फलविधिः । वलतो हि विशेषविधिः मामान्यविधि बाधते, अत्र बलप्तसामान्य- विधिविरोधे, 'न ह वा एवंविदि किञ्चनानन्नं भवति । इत्यस्य फलविधिकल्पना- योगेनार्थवादस्यस्यैव युक्तत्वात् । न चैवम् , “एवंविदि पार्य कर्म न लिप्यत' इत्यादेरपि स्तुतिमात्रत्वप्रसङ्गः, पाप्मनामश्लेषाभावे अनिर्मोक्षप्रसङ्गेन सकलपापा- श्लेषस्य मोक्षविधिशास्त्रापेक्षितत्वेन फलविधित्वस्य वक्तव्यत्वात् , प्राणविद्यायाश्च ज्येष्ठत्वश्रेष्ठत्वादिफलकत्वेष फलाकांक्षाया अभावात् , 'स होवाच किं मेऽन्ने भविष्यतीति यत्किञ्चिदिदम् आश्वभ्य आ शकुनिभ्य इति होचुस्तद्रा एतदनस्यान्नम् । इति श्वपर्यन्तप्राणिजाते विहितस्य प्राणविद्याङ्गस्य प्राणान्नत्वचिन्तनस्य स्तुतिः क्रियते, 'न ह वा एवंविदि किञ्चनानन्नं भवती ति । अतः फलविधित्वाभावात् प्राणविदः प्राणात्यय एव सर्वान्नानुमतिः । 'अनाविष्कुर्वनन्वयात् ' इत्यत्र क्लप्तस्यैव विशेषविधेः, 'नाविरतो दुश्चरितात् । इति विशेषशास्त्रेण सङ्कुचितविषयत्वम् , इह तु क्लप्तसामान्यशास्त्रानुरोधेन, 'न ह या एवंविदि । इत्यस्य विधिकल्पनाभङ्ग इति , 3 विवेकः । केचित्तु -- परमतवत् वामदेव्योपासकस्य सर्वस्यपरिहारवत् माणविद्यानिठस्य तदङ्गतया सर्वान्नानुमतिर्विधीयत इति पूर्वपक्ष कृत्वा सिद्धान्तमपि तथैव वर्णवन्ति, परापरमतदृषणपरस्य टीकाग्रन्थस्य च परापरोक्तमूलाक्षरयोजनामात्रदूषणपरतया विरोधप्रसझो नास्तीति प्रतिपादयन्ति । ज्ञानस्य फलत्वादिति । अङ्गभूतज्ञानस्य फलस्वेन कीर्तनादपापश्लोक- श्रवणपदर्थवाद इत्यर्थः । इति सर्वानानुमत्यधिकरणम् ।