पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ श्रीरङ्गरामानुजमुििवरचिता नस्यान्तधर्मवत्वं परमात्मन एव मृम्भक्तीत्येव वक्तुं युक्तत्वादित्याशङ्क , “पृथिवी ह्यप सर्वभूतान्तरात्मे' त हिशब्देन पूर्वोचक्षुधैवादेः सर्वभूतान्तामहेतूकरणात् द्युमूर्धत्वाद्युपपाद्य सर्वभूतान्तरात्मत्वं परमात्मन् एव सम्भवतीत्यर्थ इत्यभिप्रयन्नाह सर्वभूतान्तरात्सम्बन्धितोच्यमानमिति शारीराद्विशिनीति । शारीरादित्यनन्तरं । विलक्षणत्वेने 'त्यध्याहार्यम् ।

  • विशिनष्टि हि प्रकृतं भूतयेोनिं शरीराद्विलक्षणत्वेने'ति परैरुक्तवान् शरीरस्य

विलक्षणत्वावधित्वेनैव निर्दिष्टतया विशेषणक्रियाबवित्वेनानिर्दिष्टत्वात् । विशिनष्टी लुयुत्ते केन विशेषणेनेत्याकांक्षाया इच कस्माद्विशिनष्टीत्याकांक्षाया अदर्शनाच । न च कथं तर्हि भाण्यकृत, “विशिनष्टि हि प्रकरणे प्रधानात्पुरुषाचे ' ति निर्दिष्टमिति वाच्यम् .. प्रधानात्पुरुषाचेत्यस्य न्यावर्तयतीत्यर्थ इति तत्वत्योत्तरवाक्या न्वितत्वात् । न च कथं तर्हि किं कस्मादिति टीकोक्तिरिति वाच्यम्, तस्या अपि किं कपाद्यवर्तयतीत्यर्थकत्वादिति ध्येयम् । अक्षरात् एरो हि जीव इति । परतोऽक्षरादिति सामानाधिकरण्यापेक्षया वैयधिकरण्यस्य ज्यायस्त्वस्य प्रागुपपादित त्वादिति भावः । न तु धर्मशब्देनेति । अदृश्यत्वादिगुणको धमोंतेरिति धर्मः शब्देनेत्यर्थः । एतस्माज्जायते प्राण इति मन्त्रात् क्रियानुषङ्गेण, अत्रेिति भन्त्रस्थ, त्रैलोक्यशूरीरो हेिरण्यगर्भों भूतयोन्यक्षरात् जायते इत्यर्थपरत्वमङ्गीकृत्य, रूोपन्या सादिति सूलस्य च, * पुरुष एवेदं सर्वमि ? तेि सर्वश्यरूपब्रह्मलिङ्गोपन्यासात् भूतोनिः परमात्मेत्यपि योजनन्तरं फैरैर्देशितम् । तदनूद्य दूषयति- रूपोपन्या साविति । प्रकरणवशादिति | सन्निधिवशादित्यर्थः । अदान्तरप्रकरणस्येति । सन्निधेः प्रकरणविरोधे दुर्बलत्वादित्यर्थः । ततश्च, “प्रकरणं खल्वेतत् विश्वयोनेः । सन्निधिश्च जायमानानाम् । सन्निधेश्च मकरणं बलीय इति जायमानपरित्यागेन (अजा यतेत्यध्याहारमन्तरेण) विश्वयोनेरेव प्रकरणिनो रूथाभिधानमिति चेन्न - प्रकाशिन् शरीरेन्द्रियरहितस्य विग्रहवत्कविरोधात् ?” इति वाचस्पत्थलुगुण्यञ्च सिध्यति ; मीमांसकप्रवादविरोधश्च परिहृतो भवति । अत्रेदमवधेयम् - अस्मन्मते भट्टमत इवावान्तरप्रकरणभेदेन प्रकरणद्वैविध्यमेव नास्ति । अवान्तरप्रकरणशब्दाभिलप्य