पृष्ठम्:भावप्रकाशिका-भागः २.pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (वैश्वानरा ! कर: १-२६-) ४६ऽ न्तु सन्निधिरेव । न चैवमभिक्रमणय प्रयाजाङ्गल्यं न सिध्येदिति वाच्यम्, गुरुमन भ इति अदृश्यत्वादिगुणकविकरणम् । वैश्वानराधिकरणम् (६) वैश्वानरः साधारणष्ट्राब्दविशेषात् । १-२-२५ समानप्रकरणे वाजसनेय इति । अग्रिहस्ये, 'वैश्वानरं वै भगवान् सम्प्र िवेद तन्नो ब्रही। तिं श्रवणादित्यर्थ । अमिशब्दोपक्रमः कोशेषु द्रष्टव्यः । त्रेिष्वपि क्रमेण प्रयोगं दर्शयति --- अक्षरात्परतः पर इत्यादिना । इरः जीव इत्यर्थः । विधिशब्दस्य मन्त्रत्वे भावः स्यादिति न्यायेनेति । दर्शपूर्ण मासयोः श्रूयते, “ आग्नेयोऽष्टाकपाल ” इति । बहूनि चाग्नेरभिधानानि अग्रिः शुचिः पावक्र इत्यादीनि । तत्र, अग्विाचियु स्वाहाकारंञ्जित्यादिनिगमेषु येनकेन चिच्छब्देनाभिधानं कर्तव्यम्, उत विधिगतेनैवाग्शिब्देनेति विशये; अभ्यर्थो देवता कर्तव्य इत्येतावांश्चोदनार्थः । तस्य तच्छब्दोदृिश्यमानस्य देवतात्वमिति प्रयोगा वस्थायां शब्दोच्चारणमापतति । तन्नियमे च नास्ति प्रमाणम् । पावकशब्देनाप्यु द्दिश्यमानस्य चोदनविहितममेर्देवतात्वं सम्यादितमेव भवति । तस्माच्छब्दप्रयोग नियम इति पूर्वपक्षं कृत्वा-अवश्यं ह्यत्र शब्दोच्चारण एव पुरुषो नियोक्तव्यः । शब्दोचारणस्यैव पुरुषव्यापारवात् । ततश्च शब्दस्वरूपमेव उचारणान्वयित्वेन विधीयते । तद्विधाने चार्थस्य देवतात्वं प्राप्तमेवानूद्यते । येन हि शब्देन हवेि स्यज्यते, तस्यार्थस्तस्य देवता भवति । तस्माच्छब्दोच्चारणस्यैव विधानान्न पर्याय प्रसक्तिरिति पर्यायशब्दानां बाध इति बाधलक्षणे, “ विधिशब्दस्य मन्त्रत्वे भावः स्यातेन चोदने ! त्यधिकरणे (मी. १०-४ १३) सिद्धान्ततम् | यथा शब्दानियमपूर्व पक्षेऽपि प्रथमाध्यायप्रतिष्ठापितप्रामाण्यस्य न हानिः, तदन वैश्वानरशब्दस्यार्थानियम पूर्वपक्षेऽपि न प्रतिष्ठापितप्रामाण्यहानिरिति भावः । इदमुपलक्षणम्, “छागो ब। मन्द्रवणात् " इत्यादिपूर्वपक्षोत्थानस्यापति द्रष्टव्यम्। अत्र केचित्-तदधिकरणपूर्व