पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. श्रीरङ्गरामानुजमुनिविरचिता तत्वादिति भावः । शरीरस्थितेरन्यथासिद्धत्वादिति शरीरस्थितिमन्तरेणापि मनस्सि- द्धिमात्रेण भोगस्य सिद्धत्वादित्यर्थः । केवलेश्वरप्रयासृष्टत्वेति । यद्यपि जायस्वभावस्थयोः द्वयोरपि स्वसृष्ट- भोगेपकरणसदसद्भावयोः सिद्धान्तेऽप्यविशेषात् , 'तन्वभावे सन्ध्यवत् , भावे जागद्वत् । इति व्यवस्थया निर्देशे किं बीजम् । तन्वभाव इत्यस्य स्वसृष्टतन्वभाव इत्यर्थकल्पनञ्च क्लिष्टमित्यपि परैः सुवचम् – तथापि उनदूषणे तात्पर्यम् । अभिप्रायविरोधज्ञापनार्थ इति । ननु मुनस्य ब्रह्मानुभवेऽन्यानपेक्षस्वेऽपि ब्रह्मानु- भवान्यो(दान्यान् उ ?)पकरणैरीश्वरसृष्टैमोगान् भुक्त इति तन्वभाव इति सून्ले प्रतिपादनात् विरुद्धाभिप्रायत्वस्यैव आविष्करणात् कथमविरोध इति चेन्न - औदासीन्यदशावानपि भगवान् मुक्तान् भोग प्रापयतीत्युक्त्या विरुद्धामिप्रायत्वाना- पहेरिति भावः । तदधिकारवशात् तदाविष्कृतं होति । यत्र द्वितीयदर्शना- भाषः प्रतिपाद्यते, 'यत्र स्वस्य सर्वमात्मैवाभूत् तत् केन के पश्येत् ', ' यत्न सुप्तो न कश्चन काम कामयते न कञ्चन स्वप्नं पश्यती ' त्यादौ - तत्र सर्वत्र सुप्ति को कैवल्यं वाऽधिकृत्यैव प्रवृत्ते. तद्विषयत्वमेव द्वितीयदर्शनाभावस्येति भावः । नन्विद निधाभवनादिकं न कैवल्यविषयमित्यत आह -- सगुणविधाविपाक इति । अन्येत्यित्यादि । भृत्यादिशरीरवृत्तेरपुरुषार्थत्वादिति । मुक्तिदशायां स्वभोगोपकरणत्वेन सृष्टभृत्यादिशरीरवृत्तेरित्यर्थः । ईश्वरानुसञ्चरणायेति । 'कामानी कामरूप्यनुसञ्चरन् । इति श्रुतिविहितेश्वरानुवर्तनायेत्यर्थः । भृत्यादि- भावस्यानिष्टत्वान् स्वयमेवाहंकारकारणाभावश्चेदित्येकव करम् !! इति अमात्राधिकरणम् । (६) जगद्वयापाराधिकरणम् जगापारवज प्रकरणादसन्निहितत्वाच्च ४.४-१७, भाष्ये किं मुक्तस्यैश्चर्यमिति । ईश्वरस्य कर्म ऐश्वर्यम् । " गुणवचन- ब्राह्मणादिभ्यः कर्मणि च " इति कर्मणि व्यञ् प्रत्ययः । राज्ञः कर्म राज्यं प्रजापरि-