पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (जगद्वयापाराधिकरणम् ४-४.६ ) पालनभितिवत् । ततश्चायमर्थः -- किं मुक्तस्य ईश्वरसामादिशब्दैः प्राप्त यदीश्वरकृत्यं तत् परमपुरुषासाधारणं जगत्सृष्टिस्थितिसंहाररूपं सर्वेशनमपि भवति, उत परमपुरुषानुभवान्तर्गतशरीरसदिविषयमिति । जगत्सृष्टचादि सर्वेश्वरत्वं परमपुरुषानुमवविषयमिति बीपि व्याख्येयपदानि । आत्माभिमानानु- रूपत्वात् [इति ? । यः स्वं स्वरूप स्वातन्त्र्ययोग्यमिति मन्यते, तस्य स्वातन्त्र्य पुरुषार्थः [इत्यर्थः १] । .. पूर्वपक्षमुक्त्वेति । अयं भावः--

-'परमसाम्यश्रुतेर्मुक्तस्य जगत्लष्टत्वादिक-

मङ्गीकरणीयम् । न च, 'न तत्समश्चाभ्यधिकश्च दृश्यते ' इति श्रुतिविरोधात् साभ्यं केनचिदेव रूपेणेति संकोचनीयमिति वाच्यम् - साम्यश्रुतिविरोधात् तन्निषेध- श्रुतिरेव संसारिषु ब्रह्मसाम्यनिषेधविषयेति सङ्कोचोपपत्तेः। अधिकारवाक्यावगत- फलविरोधेन, 'को हि तद्वेद यद्यमुष्मिन् लोकेऽस्ती । त्यादेरिव स्तावकत्वकल्पनौ- चित्याच । अपिच साक्षादेव उपास्यगुणपातिः फलमवगम्यते, यथाक्रतुरित्यादि- श्रुतौ । न च परब्रह्मवैवर्यमानमुपास्यम् ; न तु निरङ्कुशं सर्वजगदैश्चर्यम् ; अतो मुक्तस्य स्वसङ्कल्पसृष्ट कतिपयवस्वैश्वर्यसिद्धावपि तत्क्रतुन्याय उपपद्यत इति वाच्यम्- 'सर्वस्य वशी सर्वस्येशानः', 'एष सर्वेश्वरः', 'कारणं तु ध्येयः सर्वैश्वर्यसम्पन्नः' इत्यादिश्रुतिषु निरङ्कुशसर्वैश्वर्यस्योपास्यत्वावगमात् । किञ्च मुक्तस्य सर्वेषु लोकेषु कामसंचारः श्रूयते । न तस्य तत्तल्लोकातफलभोगार्थत्वकल्पन युक्तम् ब्रह्मानन्दमनु- भवलोऽपि विषयान्तरलिप्सया सञ्चाराभ्युपगमे तस्य निरतिशयस्वभङ्गापत्तेः । अतो मुक्तस्य नियमनादिलीलार्थ एव लोकसञ्चारः । तस्मात् परमसाम्यतत्क्रतुन्याय- सर्वलोकसञ्चारादिप्रतिपादनदर्शनात् मुक्तस्यापि परमेश्वरवत् सर्वजगमष्टत्वादिकमङ्गी- कर्तव्यम् । न च, यस्य यद्गुणप्राप्तिर्यदधीना, तस्य स गुणस्ततो न्यून' इति नियमोऽस्त । गुरोविद्यामधिगावतां शिष्याणां तद्वदेव व्याख्यातृत्वप्रबन्धनिर्माणादि- 1. इदं नचे यतः प्राकनं वाक्यं भ्रमिति शिवमणि दीपिकादर्शनेन औचित्यात योजितम् ।