पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता दर्शनात् । 'दृश्यन्ते च सामाना: पार्थिवैश्वर्याधीनैश्वर्यवन्तः पार्थिवेन स्पर्धमानः तं विजयमाना अपि । तदिह निरतिशयैश्वर्यवात् परम मनो मा नाम भूवस्त- दधिकाः । तत्स. नास्तु भविष्यन्त्येव । अतः ते स्वतन्तासन्तः जगत्सर्गेऽपि प्रवर्तेरन् । न च मृत्य दिप्रकरणेषु परमात्मन एव प्रकृतत्वात् मुक्तानामसंनिहित- लाच परमात्मन एव सृष्ट्या दिव्यापारः; न मुक्तानामिति वाच्यम् - श्येनप्रकरणे येनवत् इधुनामक्रतोरसंनिहितत्वेऽपि, 'समानमितरत् श्येनेन' इति साम्यत्रचनात् नदीयवैशेषिकाङ्गानामिषाविव मुक्तानां सर्वेश्वरसाम्यवचनात् तदोयसृष्टया दव्यापाराण तेषु सिद्धयु पत्तेः । किञ्च (७-३-१०. पू. मी.) गावामयनिकस्बर साभवैश्वदे- च्यामिक्षाद्यावापृ थव्यैककपालप्रकरमानानातानामपि प्रकरणान्तरा नातस्वरसामशरुणक- कपालमैत्रावरुण्यामिक्षाणां साप्तदश्या दिलिगबलात् तदीयधर्मान्तरप्राप्तियत् स्व- लोकादिसञ्चारादिलिङ्गवलात् मुक्तानामपि ऐश्वर्य जगद्व्यापारप्राप्तयुपपत्तेरिति । अगद्यापारवर्जमिति । “द्वितीयायाञ्च" इति णमुल । तत्र, 'परीप्साया' मित्येतत् प्राधिकमित्युक्तम् , “ अनुदात्तं पदमे स्वर्जन " इत्यत्र वृत्तिव्याघातृभिः । यद्धा जगद्व्यापार वनयतीति जगन्यापारवजम् । कर्मण्यम् । ऐश्वर्यमिति विशेष्यम् । अन एघोत्तरत्न, जगद्यापारवत्वप्रसङ्ग इत्यादिनिर्देश उपपन्नः । गमुलतत्वे तु न भावपत्ययः स्यात् । रूपञ्चान्यथा स्यात् । मध्ये मुक्तस्यैश्चर्यमिति । भवितु. महतीति शेषः । अतश्च धातुसंबन्धविहितस्य णमुलो नानुपपत्तिर्णमुलतत्वपक्षे इति द्रष्टव्यम् । भाष्ये ततश्चेदं जगदीश्वस्त्वरूपमिति । नवनायनन्तकल्पानुवृत्त- सर्वप्रपञ्चजन्मादिकारणत्वं ब्रह्मलक्षणम् । मुक्तानां तु स्वमुक्तिप्राचीनकालवर्तिप्रपञ्च- कर्तृत्वाभावात् न लक्षण -वविरोध इति चेन - जगत्सृष्टयादिषु वर्तमानानां मुक्ता- नामैकमत्यनियमाभावात् कस्यचित् सिसृक्षायामन्यस्य सन्जिहीर्षापि कदाचिद्भवेदिति 1. दृश्यन्त इञादि प्रवते छन् इत्यन्तं शिवामगिदीपिकायां नास्ति । कदाचित् तत्र स्थितमेव तन्न मुद्र भ्रष्टमपि स्यान ; स्वयं योजितमपि स्यात् । 2. स्वरसामेति अहविशेषनाम । 3. अत्ररात्र घर्षणेस्वरमामा, अघभृथे कारण काल , आनबन्ध्यास्थाने मैनावसम्यामिक्षा 4. साप्त मतदशरोमनत्यमिह ।