पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

LI भावप्रकाशिका (जमयापाराधिकरणम् ४-४-६) ९४५ किमपि कार्य न निवर्तेत । न च सर्वेऽपि परमात्माधीना एवं जगत्सर्गादौ प्रवर्तन्त इति ऐकमत्यमुपपद्यत इति वाच्यम् -- तर्हि तदधीनत्वेन तत्सम्याभावेन साम्यश्रुतेः संकोचनीअत्यावश्यम्भावात्, भोगमालसाम्यमादायामि तुलानृतयोः सुवर्णशिला- शकलयोर्गुमल्यसाम्ये नाप्यत्यन्तसाम्यव्यवहारवत् साम्यव्यवहारस्य जगत्कारणत्वमन्तरेणा- प्युपपत्तेः न मुक्तस्य जगल्यापारप्रवृत्तिरिति भावः । न च तत्क्रनन्यायविरोध: शनीयः, कारणत्वविशिष्टस्य ब्रह्मणः प्राप्यस्वाङ्गीकारेण विरोधाभावात् । भाप्ये तदेक सन्न व्यभवदिति । तत् - ब्रह्म एक-क्षलादिपरिपालयितृत्वादिशून्यं सत् न व्यभक्त- विभववन्नाभूत् । कर्मणे न पर्याप्तमासीदिति यावत् । श्रेयोरूप प्रशस्त रूपम् , अत्यसृजत - अतिशयेनासृजत् । देवना-- देवेष्वित्यर्थः । क्षत्राणि-क्षत्रियाणीत्यर्थः । कानि पुनस्तान्ति क्षत्रियाणीत्यत्राह-इन्द्रो वरुणा इत्यादि । कन दीप्ताविति धानु- रिति । कन दीप्तिकान्तिगतिवित्यस्मात् भौवादिकात् यत् प्राप्तः, कन्यायाः कनीन च " इति निर्देशान्न भवति । अपितु यदेव भवति । विकारावर्ति च तथा हि स्थितिमाह ४.४.१९. सर्वत्र कामचारादयो भवन्तीति । हषोंद्रकात्, "एतत् साम गायनास्ते हानु हावु हाबु" इत्यादिश्रुतिप्रतिपन्नसामगानवत् हर्षोद्रेकात् यथेष्ट सञ्चरतीत्यर्थः । तथा च " उपस्थितेऽतस्तद्वचनात् ।" इत्यत्र ब्रह्मोपसम्पत्तिः कामचारे हेतूकृता । अत एवं निवृत्ततिरोधानस्य मुक्तस्य परमपदनिलयस्यैव सर्वविभूतियुक्तब्रह्मानुभव- संभवात् सञ्चरण बृथेति शंकापि पराकृता । हर्षोद्रेकप्रयुक्तचेष्टायाः प्रयोजनोद्देश- प्रवृत्तत्वाभावात् । लब्धसविभूतिकब्रह्मानुभवस्यापि चक्षुरादीन्द्रियजन्य साक्षात्कारादि- लिप्सया शरीरन्दरपरिग्रहयथेष्टसञ्चागद्युपपत्तेः । अन्न विकारावर्तीति ब्रह्म निर्दिशतः सूत्रकृतोऽयं भावः - अक्षयविनाशशून्यब्रह्मानुभवरूपस्याऽऽनन्दस्य न वृद्धिहासौ ! सततैकरूपत्वान ईदृश ब्रमानुभक्तो मुक्तस्य नावाप्तव्य आनन्दोऽन्यो- ऽस्ति । येन ब्रह्मानुभवस्य आधिकारिकमण्डलस्थभोगापेक्षया न्यूनता कल्प्येतेरि । भोगमालसाम्यलिलाच ४-४-२१. मनु, सह ब्रह्मणा विपश्यते । त्यस्य भोग्यसाहित्यपरत्वेन भोगसाम्ये प्रमाणीकरणसम्भवात् [कथमेवम् ?] इत्याशय भोगसाम्यरूपसायुज्यप्रतिपादक- 119