पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४६ श्रीरङ्गरामानुजमुनि विरचितः श्रुतिवाक्यान्युदाहरति स एवंविदित्यादिना । 'पृथिव्यै चैनमश्च देवी वागाविशति । सा चै देवी वाक, यया यद्यदेव बदति उत्तद्भवति । दिबश्वैन- मादित्याच्च दैवं मन आविशति । तद्वै दैवं मनः, येनानन्येव भवति । अथ न शोचति । अयश्चैन चन्द्रमसो दैवः प्राण आविशति । स वै देवः प्राणः, यः सञ्चरेश्चासञ्चरंश्च न स्यथते न रिप्यति" इति प्राक्प्रस्तुतदैववालानःप्राणविज्ञानस्य फलमुच्यते – ‘स एवंचित सर्वेषामात्मा भवति यथैषा देवतैयम् । स यथैता देवताः सर्वाणि भूतान्यन्ति, एवं हैवंविदं सर्वाणि भूतान्यवन्तीति । आत्मा भवति- आत्मवत्पूज्यो भवति । अवन्ति = पालयन्ति तर्पयन्ति । तेनो एतस्यै देवतायै सायुज्यं सलोकता. जयतीति = तेन यथोक्तज्ञानेन एतस्या देवतायाः सायुज्यं सलोकताच प्राप्नोतीत्यर्थः । यद्यप्युदाहृतवाक्यानो न ब्रह्मविद्विष्यत्वम् , तथापि तुल्यन्यायतया ब्रह्मविद्विषयेऽपि भोगसाम्ये लिङ्गतया पर्ववस्वतीति भावः ।। अनावृत्तिइशब्दादनावृत्तिइशब्दात् ४४-२२, एतदैकार्य स्यादित्यभिप्रायेणेति । “पुनर्जन्म न विद्यत " इत्यत्र ब्रह्मणि दुःखालयवादिविशिष्टजन्मनिषेधे पर्यवस्यतीति भावः । अनेनावृत्तिरिति । जन्मसत्वेषि हेयास्पदजन्मनिषेध इत्यभ्युपगमन्यायेन पुनरावृत्तिसत्त्वेऽपि हेयास्पदा- वृत्तिनास्ति । अपितु कामनिमित्त एवं सञ्चार इति भावः । स्वेच्छा बा कर्म वेत्यस्याय भावः - मुक्तानां प्राक्तनपुण्यायुध्ययोः विद्यामाहात्म्यात् नशेऽपि मुक्तिकालकृतभगवद्रोहादिपापवशेन, नहुषादेः पदच्युतिक्त् अस्यापि पदच्युतिः इति । सचिनुमण्डलादिस्थाधीन(स्थानेषु) भोगोक्तरिति । सवितृमण्डलादि- गतपरमात्मोपासनायसैश्वर्यत्वादितरेषा न निरवग्रहं मुक्तनामैश्चर्यमित्यर्थः । किमर्थ सत्रद्वयमिति चेदिति । सूत्रद्वयस्य कोऽभिप्राय इति चेदित्यर्थः । निर्विकारपररूपप्राप्तिरनुपपन्नेति । अयमर्थः - यथा सगुणब्रह्मोपासकानां सगुणे ब्रह्माणि वस्तुगत्या सदपि विकासवर्तिवरूपं न प्राप्यम् , अतत्क्रतुत्वात् – एवं सगुणे ब्रह्मणि स्थितमपि निरवग्रहैश्वर्यं सगुणोपासकानामप्राप्यम् , अतक्रतुल्यात् । सत्यकामत्वादिलक्षणैश्वर्यस्योपास्यत्वेऽपि निरवग्रहैश्वर्यविशिष्टमुपासतेति श्रुत्यभावेन सम्भाव्यत' 1