पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (जगदृयापाराधिकरणम ४-४-६) ९४७ निरवमहत्वांशस्थानुपास्यतया तत्प्राप्त्यभावात् द निरवग्रहैश्वर्य सगुणोपासकस्येति । निर्गुणप्राशावावृत्तिशंकाया अभावादिति । ततश्च सगुणप्राप्तिविषयमेवेति भावः । अन्येत्वित्यादि । नावान्तरे पुनरावृत्तिरिति । न च इममिलि शब्दवैययमिनि शङ्कनीयम् अनेकार्थास्पदत्वसूचनार्थत्वेन तरसाफल्यात् । मुक्तप्राप्यत्वायोगादिति । यद्यापे यादवमते, 'आमोति स्वाराज्य ' मित्यस्य न मुक्तविषयस्यम् – तथापि स्वाराज्यपदस्वारस्याद् मुक्कविषयत्वमभिप्रेत्य एतद्रूषा- मुक्तमिति द्रष्टव्यम् । सच भाष्योत्ताशेषार्थपरामशीति । अशेषार्थहेतुत्वपरामर्शीत्यर्थः । समञ्जसमित्येतत् उक्तमिति पदाध्याहारेण उक्तं सर्व समञ्जसमिति व्याख्याय सर्वशब्दस्यानुदाहश्रुत्यादिपरत्वमभिप्रेत्य द्रष्टव्यपदाध्याहारेण व्याचले सर्वशब्देना. नुदाहृतेति । ननु परोक्तवाचकप्रमाणतणां भाष्येऽनुपन्यस्तानां परिहारप्रकारस्था- प्रदर्शितत्वात् कथं सर्वसामलस्य द्रष्टव्यं स्यादित्याशङ्कयाह उक्तार्थवाधकत्वेनेति । भाष्योपन्यस्तैरेव न्यायैः परोपेक्षितानामुत्प्रेक्षिप्यमाणानाञ्च प्रमाणतर्कामासान परिहारः सुगम इति भावः ।। इति जगल्यापाराधिकरणम् ।। इति सातयायचरणारविन्दचञ्चरीकैः वात्स्यानन्तार्यसेवासमधिगत- शारीरकमीमांसाभाष्यहृदयैः परकालमुनिकषालब्ध- पारमहंस्कैः श्रीमद्दशोपनिषद्भाष्यकारैः षष्टिप्रबन्धनिर्माणालमीणैः