पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिििवता हेिततया अग्निशब्दस्यैव यौगिकार्थरत्वं किं न स्यादिति वाच्यम् --'अनौ वैश्वा नरे प्रास्यत् । इति अतिशब्दस्य पक्रमस्थवेन पुनरुक्त शङ्का दये निशब्दस्य पर्यव सान्वृत्या परमात्मपरत्वस्य सिद्धतया एश्चाच्छूवैश्वानरशब्द एव पैौनश्वत्यशङ्को दयादिति भावः । एरमात्मविषयत्वे वाक्यान्तरेष्धपीति । अग्निशव्दरहितेषु, आत्मानमेधेमं वैश्वानरं सम्मयध्येष्टि ? इत्यादिवाक्येष्वित्यर्थः । एकप्रयोजकत्वा येति । एकस्यैव प्रयोजकत्वसिध्यर्थनेित्यर्थः । वैश्वानरशब्दो दृष्टान्ततयोक्तः इति । ननु पौनरुक्त्यप्रसङ्गपरिहाराय वैश्वानरशब्दस्य यौगिकत्वमाश्रितम् । अग्नि शब्दे ताट्टशबाधकाभावात् कुतो योग इति चेन्न-रूढ्यर्थासम्भवे अपशूद्राधिकरण इव योगस्यैव ज्यायस्त्वमिति जैमिन्यभिप्राय इति भाव । विशदतरत्वेऽपि प्रयोगा दिति । ज्ञानस्य साक्षात्वमित्यादिप्रयोगदर्शनादिति भावः । बिदाद्यञ्जन्तः ऋष्य रान्तो वेति । गोत्रापत्ये निदाद्यङअन्त:; अन्तरापत्ये ऋष्यणित्यर्थः । ततश्च निदाद्यजन्तात् () ऋष्यणी बाधितत्वात् कथम ऋष्यणिति शङ्का निरस्ता । पुरुष समष्टिचाचित्वेऽपीति । ' नरे च संज्ञाया!मिति संज्ञायां डोव्विधानात् । समष्टि पुरुषसंज्ञात्वेऽपीत्यर्थः । विश्वानर एव वैश्वानर इति । प्रज्ञादेराकृतिगणत्वादण प्रत्यय. । विद्याभेदः स्यादिति । यद्यपि नोपस्थाकारभेदमात्रं विद्यभेदकम्, एकस्यामेव शाण्डिल्यविद्यायां मनोमयत्वप्राणशरीरत्वादीनामविरुद्धानां बहूनामुपास्या काराणां दशनात् । किं बहुना, सवॉस्वपिं परविद्यासु , 'आनन्दादयः प्रधानस्य अक्षरधियां त्ववरोधः' इति न्यायेन सत्यत्वज्ञानत्वानन्दत्वादीनां बहूनामाकाराणा मनुयायित्वदर्शनाच न विद्याभेदप्रसक्तिः – तथाप्यग्निशरीरत्वाग्र-नेतृत्वयोः विरोध मभ्युपगम्य एवमुक्तमिति द्रष्टव्यम् । विलम्बाविलम्बसाम्य तुल्यधलन्व मितीति । रूढ्यर्थानुपपत्तिप्रतिसन्धानभूलत्वेन दौर्बल्यं यौगिकार्थरूडयथ५थैव सानवृतिलव्धार्थयोः समानम् । तत्रापर्यवसानवृतिलब्धार्थस्य प्रथमप्रतिपन्नरूढयर्थानु गुणत्वं प्राबल्यहेतुः; तत्पक्षे रूढ्यर्थस्यापरित्यागात् । यौगिार्थस्य तु मुख्यत्वमेव प्राबल्यहेतुः, रूढ्यर्थवत् यौगिकार्थस्यापि मुख्यत्वादिति तुल्यबलवमिति भावः । ननु रूव्यर्थापर्यबसानलब्धार्थस्य रुढिपूर्वकलक्षणापेक्षया जघन्येन यौगि कार्थेन तुल्यत्वं वदता अपर्यवसानलब्धार्थे लक्षणैवोक्ता स्यात् । न चेष्टापतिः । चराः