पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i ४५ हानिः, * आदित्यस्य गावः प्रकाशायन्ति ? इत्यादै रिणादीनां विलम्बतो स्थिति कानामपि मुल्यार्थत्वदर्शनादिति द्रष्टव्यम् । एकनैव वाक्येन वैक न्पार्थेति । नन्वन्निशरीरकस्वाग्रनेतृत्वन्पार्थयोरेकवाक्यविहिन्श्वे अरुणैकठ्ठावन्योरि समुचयम्यै विकल्स्याभ्युपगन्तव्यतश्च कथं वाक्यभेदापादनं तदनिष्टं स्यात् । केिश्च वाक्य भेदभीत्या विकल्पं परित्यज्य विद्यामेदः स्वीकर्तव्य इत्याक्षिपतो मते एकेनान्निशब्देन वृतिदूथाश्रयणेनार्थद्वयवेिधने वृत्तिद्वयविरोधप्रसङ्गेनावृतिलक्षणवाक्यभेदस्याभ्युपेतव्य तया वाक्यभेदोषस्यानुद्धाट्यत्वमेितेि चेत् - उच्यते – अग्निशरीरकवग्रनेतृन्वरूप गुणद्वयवत्या विधाने विद्याभेदो वा स्यात् , तस्यामेव विद्यायां वाक्यभेदमाश्रित्य विकल्पाभ्युपगमे अष्टदोषदुष्टो विकल्पः स्यान् वाक्यभेद्दोषश्च स्यादित्यत्र तार्यात् । यौगिक इति हेि सूत्वतात्पयमिति । रूढ्भावे योग एव ज्यायान्, मुख्यत्वात् न त्वपर्यवसांनवृत्तिः । तस्या यौगिकार्थबन्मुख्यत्वाभावादिति जैभिनेर्मतम् । न तु द्वयोरपि तुल्यबलत्वम् । येन विद्याभेदो विकल्पो वा स्यादिति भावः । न द्वितीयेनि कृत्वेति । “तनि द्वैधं गुणप्रधानभूतानि ? (पू.मी.२-१-३) त्यधिकरणे क्रीहीनव हन्तीत्यत्र वेिमवघातार्था व्रीह्वयः उत त्रीह्यर्थो वा अवधात इतेि विचार्य भावार्थाधि करणन्यायेन भूतस् द्रव्यस्य क्रियानिवृत्तिः दृष्टं प्रयोजनं लभ्यत इति अवघाताथ ब्रीहयः, अवघालस्त्वदृष्टार्थ इति पूर्वपक्ष कृत्वा, अवघातस्य कर्मपयिकतुषविोकादि लक्षणदृष्टप्रयोजनेन सप्रयोजनत्वे सम्भवति यागादिवत् अष्टार्थकल्पनाया अन्याय्यत्वात् अवघातस्य व्रीह्यर्थत्वमेव, व्रीहीणाञ्च तण्डुलपिष्टप्रणाडिकया यागार्थत्वमिति न कुत्राप्यदृष्ट कल्पनीयमिति सिद्धान्तिम् । तत्र ननु ब्रोहीनवहन्तीति द्वितीयाश्रुत्या अवघातस्य क्रीडार्थत्वावगमत् कथं पूर्वपक्षोत्थितिरिति आशैक्ष्यं, द्वितीया नास्तीति सिद्धवत्कारेण पूर्वपक्षः प्रवर्तत इति पूर्वमीमांसकैर्णितमि-यर्थः ।