पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७, १८ बुध्यारोहार्थत्वं किं न स्यादिति ! प्रियशिरस्त्वादित्रदिति भावः । ननु सम्पतिं दर्शयतीत्येतावति वक्तव्ये, * परमात्मोपासनोचितमेव फलं दर्शयती' ति भप्ये निर्देशो निष्मणक इत्याशंक्व प्रागुपक्षिप्तस्य प्राणाहुतेः परमात्म समाराधनरूपवस्योपपादकं तदित्याह--अग्निहोत्रसम्पत्तेः परमात्भसमाराध नार्थत्वमिति । परमात्मसमाराधनं प्राणाहुतिः । तस्या अग्निहोत्रहीत्वार्था ग:है- पत्यायादिसम्पत्तिरिति भावः । “तस्य सर्वेषु लोकेषु” इत्याद्युक्तः फलविशेष एच प्राणाहुतेः परमात्मसमाराधनत्वं ज्ञायतीति भाव । सबैभावितं भवति । यागस्य देवपूजार्थत्वात् पूजायाश्चाधनरूपत्वात् यागहोभयोश्वानतिभेदात् हुधा तोराराधनमर्थ इति भावः । तदङ्गकपरोपासनफलं दर्शयतीति । उपासनफलस्य सर्वपापप्रदाहृस्य प्राणाग्निहोत्रे प्रदर्शन प्रणाग्निहोत्रस्य तदङ्गत्वज्ञापनार्थमित्यर्थः । इदञ्च प्राणाहुतिमात्रस्येश्याद्युत्तरवाक्ये स्पष्टयिप्यते । उपासकस्य मूर्धाद्यवयवाना मेत्रेति । * यस्त्वेवमेवे ? तेि पूर्ववाक्ये उपासकस्य प्रकृतथा, “तस्य ह वा, एतस्ये ? त्मन तच्छब्देन तस्यैव पराम्रgअत्रान् “उर एव वेदिल मानेि बर्हिः : इत्युक्तरवाक्ये उपासकीरःप्रभृतीनामेव पराम्रष्टव्यत्वेन, “तस्य ह वा एतस्यात्मनी वैश्वाभस्य भूव तेजः' इत्यादौ मूर्धादिशब्दैरप्युप्तकपूर्वादिपरामर्शस्योचेि तत्वाच । ननैवमात्मनो वैश्वानरस्येति व्यपदेशः कथं घटतामिति वाच्यम् उपास्योपासकामेदविवक्षया वैश्वानरादिशब्दप्रयोगोपपतेरिति भावः। आसप्तलि चैनमस्मिन् १ -२-३३. मुक्तिरेव फलमितीति। ज्ञापयितुमुक्ततयेत्यन्वयः । यद्यपि “सर्वेष्वात्मस्वन्न मती ? त्यहानेिष्टवृत्यंशो न कण्ठोक्तः ब्रह्मानुभवमान्नस्योक्तत्वात् – तथापि तदन्तर्ग त्वमस्तीत्यभियन्नाह – फलान्तर्गतेति । वाक्यप्रतिपन्नस्याङ्गिभावस्येति ।