पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ श्रीरङ्गरासानुजमुनिविरविता प्रतिष्ठित'इति। सो विमुक्तः अस्मिन् प्रतिष्ठित इति । वरणायां नास्थाश्च मध्ये प्रतिष्ठिन इति । का वै बरणा का च नासीति । तत्र चेमामेव नासिकां वरण! नासीति निरुच्य पुनरप्यभनन्ति, कतमचास्य स्थानं भवतीति । ध्रुवोः प्राणस्य छ यः सन्धिस्स एष छौलकस्य परस्य च सन्धिर्भवतीति । ततश्च नासिकाभ्रमध्यप्रदेशमलवििने परम्। त्मनि प्रादेशमात्रेोपपत्तिरिति चतुर्थसूत्रार्थमाहुः । तेषां मते चतुस्सूच्या अपि प्रादेश मात्रत्वनिर्वाहमात्रप्रदर्शनपरत्वेन अस्मन्मत इव प्रत्येकं भिन्नभिन्ननिवृत्याशंकायां अभावात् नातीव सप्रयोजनत्वमित्याह-अभिव्यक्तिः अनुसरणीयत्वमित्यादिना । झुप्रभृतिमूर्धत्वादिसम्पादनमिति पाठः । मस्तकचिबुकान्तरांल इत्येतत् कांका क्षिन्यायेनोभयत्र सम्बध्यते । मस्तकचिबुकान्तरले द्युमृर्थत्वादिसम्पादनं मस्तकविः बुकान्तराले परस्य स्थितेरिति च उभयत्र सम्भ्रश्यते। श्रुत्या प्रतिपादनमित्यस्या नन्तरं श्रादेशमात्रत्वश्रुतिनिर्वाौिपयिकमिति शेषः पूरणीयः । इति श्रीमन्धतुष्षष्टिप्रबन्धनिर्माणालङ्कमणदशोपनिषद्भाष्यकार - श्रीमद्रङ्गरामानुजमुनि विरचितायां श्रुतप्रकाशिकाव्याख्यायां भवभकाशिकायां द्वितीयः पादः । श्रीभते रङ्गरामानुजमहादेशिकाय नमः ।