पृष्ठम्:भावप्रकाशिका-भागः २.pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८० त्वादिति भावः । छत्रस्य द्राक्षीयत्वादिति । “ अव्ययं विभक्ति !' इत्यादि. सूत्रस्यातिदीर्घत्वादित्यर्थः । प्रकृतात् परात्मनोऽन्यदिति । पूर्वसूत्रे छुभवाद्ययनं परमात्मेति साध्यतया प्रकृदित्यर्थः । अ सः = प्रथानाच्यितिरिक्त इति । अस्मिन् सूत्रे प्रधानजीवयोः कृत्वा तच्छब्दे तयोः परामर्शसम्भवादिति भावः। परमात्मा चेदिति । यद्यपि प्रधानमीवध्यतिरिक्तः परमात्मनोऽन्थोपि सम्भवतेि तथापि प्रधानलीवपरमात्मनामेव प्रस्तुतत्वेन अतच्छब्दः तत्रैव पर्यवस्यति । अत एव उतरत्र, ‘तद्वात्रिशब्दव्यतिरिक्तशव्दात्' इत्यस्य परमात्मशब्दादित्यर्थसिद्धिमभिप्रेत्य तत् स्वशब्दादित्यनधिकार्थमितिं वक्ष्यति । अतः पारिशेष्यात् अर्थाभाव इति । अभ्यस्तु --. “नाव्ययीभविादतोऽम्पञ्चभ्यः ?' इति पर्युदासान्न भवतीति रूयसिद्धि , ईशभिन्नत्वस्य जीवसाधारण्य कथं प्रकृतिपस्विमत्याशङ्कयाह स्त्रीलिङ्ग सामथ्यादिति । ननु भूतथै विहितस्य क्तस्य प्रीयमाणमिति वर्तमानार्थनिर्देशः कथमित्यत्राह आदिकर्मणि इत इति भाव इति । तदाशब्दस्यं मन्त्रे अश्रव |दाह--यत्तदोरिति । पक्षान्तरमाह--इतिशब्द इति । तदर्थस्तदा शब्द विव क्षित इति । तदर्थः = इति शब्दार्थ इत्यर्थः । भाग्यस्थस्तथाशब्द इतिशब्द व्याख्यानमित्यर्थः । ननु भेदव्यपदेशमात्रेण कथं द्युभ्वाधाधारस्य परमात्मत्वं जीवत्वं वा कुतो न स्यादित्यलाह द्रष्टस्त्रसमानाधिकरणेति । प्रकरणात् १-३-५. पूर्वोत्तरव वेति । प्राणभृत्प्रतिक्षेपे परमात्मसाधने चेत्यर्थः । स्त्यिदनाभ्यां च १-३-६ समानाश्रयत्वादिति । यस्सवैज्ञस्सर्वविदिति अत्र प्रकरणे श्रवणात् सार्वज्यमपि प्रकृतछुभवाद्यायतनविषयमिति भावः । स्वयं योग्यत्वादिति । जीवस्य तु। सार्वश्यामृतसेतुत्वादेरष्टादिद्वारा असुल्यतथा कथञ्चिनिर्वाह्यत्वादिति भाव ।