पृष्ठम्:भावप्रकाशिका-भागः २.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( भूमाधिकरणम् १-३ -२) संपादनीयमित्यर्थाश्रयणस्य क्रिष्टत्वाचेत्यदिदूषणे तात्र्यात् । प्रमाणान्तरमुक्तमिति। प्राणशब्देन श्रुतिलिङ्गे विवक्षिते । ब्रह्मसाक्षात्कारोपायभूतमित्यनेनेति । यदा वै विज्ञानातीत्यस्य वाक्यस्य साक्षात्कारित्वनिर्मितातिवादित्वप्रतिपादनपरतया ग्रन्थकृवै व्यास्यायमानत्वदिति द्रष्टव्यम् । तदुपायभूतं सत्योपासनं कुर्यादित्यर्थ इति। सत्यं त्वेव विजिज्ञासितव्यमिति वाक्यस्येति शेषः । न्नु, ' यदा नै विजानात्यथ सत्यं वदति, नाविजानन् सत्यं वदति?त्य िदवाक्यम् , सत्यं त्वेव विजिज्ञासितव्यमित्य स्यानन्तरखण्डे पठ्यते । प्रकरणं चोत्तरोत्तरस्य पूर्वपूर्वं प्रति हेतुत्वप्रतिपादनपरम्, न तूतरोत्तरस्य पूर्वपूर्वसाध्यत्वप्रतिपादनपरत् । ततश्च पूर्वखण्डे सत्यं त्वेव विज ज्ञासितव्यमित्युपासनं विधाय तसाध्यसाक्षात्कारं तदुत्तररूण्डे कथं प्रतिपादयतीति चेत्- उच्यते, पूर्वखण्डे, सत्यं त्वेव विजिज्ञासितव्यमिति अतिवादित्वसिद्धये ब्रह्मपlसनं विहितम् । तन्न चातिवादित्वे सत्योपासनस्य साक्षात्कारद्वारा हेतुरमिति प्रतिपाद्यते द्वितीयखण्डे । ततश्च खण्डद्वयेनपि अतिवादित्वनिमितेन साक्षात्कारहेतू पसनं विधीयते । तदुतराखण्डैरुपासनोपयोगिमनादयो विधीयन्त इति भ कारभिप्राय इति भावः । यादृच्छिकसञ्जनेति । जानश्रुतेर्हपसंवादिना ब्रह्मणि निरतिशयपुरुषार्थत्वावगमस्य दृष्टवान् , महाभागवतसंवादादिना च ब्रह्मणि निरतिशय पुरुषार्थत्वावगमस्य दर्शनादित्यर्थः । लभतेः प्राप्त्यर्थत्वादिति । ज्ञानस्यापि प्राप्तिः रूपत्वtदति भावः । मुख्यग्राप्तिपरत्वेऽनिष्टमाह--न हि श्रवणादेरिति । सत्यव्यति रिक्तविषयाणीति। विज्ञानं विजिज्ञासितव्यम्, मतिस्त्वेव विजिज्ञासितव्येत्यादावुपास मार्थत्वस्यासंभवदिति भावः। दृश्यभिथ्यात्वशङ्कायामिति । ब्रह्मव्यतिरिक्तदर्शनाभावो हि दृश्यव्यतिरेकाद्वा स्यात, दृशव्यतिरेकाद्वा । तस्य शिस्वरूपस्य नित्यतया दृश्य व्यतिरेक एव पर्यवस्यतीति दृश्यनिथ्यात्वं सिध्यतीति परेषामाशय ति भावः । भाप्ये अनधिकातिशयस्वरूप ति। यद्यपि, यन्न नान्यदिति भूमलक्षणवाक्ये,यत्रान्यत्पश्यती त्यरुपलक्षणवाक्य इवानिर्धारितवस्तुपरामर्श एवोचित ; न त्वनवधि त्वादिविशिष्ट परामर्शः। अन एवान्यदर्शनाभावादेः तद्धलभ्यत्वकथनमप्यनुचितम्। न िह, यः साक्षा वान् स गैरित्यत्र यच्छब्देन गोत्वविशिष्टपरामर्शत् सस्रात्लाभ इति सङ्गतम्-तथापि जन्मादिसूत्रे यतस्सर्वज्ञ दिति सकलभप्यकृनां व्यवहारवत् समाधानसंभवादिति द्रष्टव्यम् । ततोन्यदिति व्याख्येयं पदम् । दुःखरूपं तद्वयतिरिक्तश्च न पश्यतीत्यर्थ इति। ४८७