पृष्ठम्:भावप्रकाशिका-भागः २.pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (भूमाधिकरणम् १-३-२) सुकृतं, 'रसो पै स । इति. कायवस्थोच्यते; * आनन्दाद्धयेव खलु ? इति कारणा भाप्ये- अथातोहंकारादेश इत्यहृङ्ग्रहोपक्रमांदिति । जीवस्वरूपोपदेश परबे अर्थातोहमुपदेश इति स्यात्, अताहङ्कारशब्द बुद्धिपर इति भावः । अस्मिन् प्रकरणेऽपि सर्वात्मत्वद्युक्तमिनि दर्शयिष्यन्निति । यद्यपि 'स एवाधस्तात् ' इत्यादिना भूमस्सर्वात्मकत्वं मागध्युक्तम् – तथापि सर्वात्मकत्वदृढी करणाय उत्तरापि दर्शायेष्यन्नित्यर्थः । एतचोपलक्षणम्-अथात आत्मादेश इत्यस्या भावे, 'तरति शोकमंत्मवित् ' इत्युपक्रान्तस्यात्मोपदेशस्यपर्यवसानात् अन्यदुपक्रान्तं: मन्यदपतितमिति शङ्का स्थत् । अतो भूमैक्षत्मेति दर्शयितुमात्मोपदेश इत्यादिसन्दर्भ इति द्रष्टव्यम् । आत्मत्वं फलितमित्युक्तमिति । सर्वात्मत्वे कथिते उपासक्रामत्वमपि फलितमित्यभिप्रेत्य अथात आत्मादेश इतेि वाक्यमुदाहृतमित्यर्थः । कण्ठोक्ति भद्वाक्यस्येति । तस्य हवा एतस्ये 'ति वाक्यम्येत्यर्थः । भाष्ये-उपासकस्यान्तर्या मितयाऽऽवस्थितादिति। विज्ञान आत्मत इति श्रुतेरूपासकस्यान्तर्यामिण इत्यर्थ इति भावः । यदत्र विवरणकारेणोक्तम्-अहङ्कारस्यात्मैक्रत्वेन प्रत्यक्षसिद्धस्याथातोहङ्कार देश: अथांत आत्मादेश इति पृथगुपदेशोऽभेदार्थः, भूमात्मनोन्नित्वेन प्रसिद्धयो पृथगुपदेश ऐक्यार्थः । द्वयोस्सार्वाम्ययोगादिति--तदसारम् । अहमर्थादन्यस्यात्मनो भूमाख्यब्रह्माभिन्नत्वेन प्रत्यक्षासिद्धत्वात् तयोरुपदेशो मैदार्थ ; अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोरुपदेश ऐक्यार्थ इति वैपरीत्यस्यापि सुवचत्वात्। न चाहमर्थस्य जडरूपस्यान्तःकरणस्य भूमाभेदबोधनं बाधितं, नात्मनस्तथेति वाच्यं, तस्य तन्मतश्रद्धालुमालहृदयङ्गमत्वात् । अतः स एंवाधस्तादित्यादिना सर्वात्मत्वेनोपदिष्ट भूप्ति अथातोहङ्कारादेश इति अहङ्कहोपासने विहिते तस्य दृष्टिविधित्वशङ्कवारणाय प्राशुपक्षिप्तसर्वात्मत्वं दृढीकुर्वन् उपक्रान्तात्मोपदेशस्य तत्रैव पर्यवसानं च दर्शयति अथात आत्मादेश इत्यादिना इत्येव युक्तमिति द्रष्टव्यम् । इतिः भूमधिकरणम् (२)