पृष्ठम्:भावप्रकाशिका-भागः २.pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेविरचिता रन्तराळवर्तिनः कायैजातस्य निर्देशात्, तत्र च वायुमदाकाशस्य सहावश्यंभावात् तदाधारत्वं भूताकाशस्यं न संभवतीति भांबूः । ४९२ ननु, यदृध्वै याइयवल्क्य दिवो यदर्वाक् पृथिव्या' इति श्क्षस्य तप्रति वचनस्य कथं प्रधानविषयत्वम्, पूर्वसन्दर्भबिरोधात्, एवं द्युपाख्यायते बृहदारण्यके जनकयज्ञे कुरुपाञ्चालदेशागतेषु ब्राह्मणेषु अभिसमेतेषु, 'क:स्विदेतेषां ब्रह्मिष्ठ इति जिज्ञासुना जनकेन शुङ्कद्वयबद्धपलरिमितसुवर्णालङ्काराः सहस्र गा: समानीय,

  • ब्राह्मणाः भगवन्तः ! यो वो ब्रह्मिष्ठः, स एतागाः [उदजतमिति निवेदितेषु अधूटेषु

स्थितेषु तासामुदजनाय याज्ञवल्क्येन स्वशिष्ये नियुक्त तेन च तासूत्कालितासु ततः?] कुद्धेषु तमश्धलः पप्रच्छ, त्वं नु खलु याज्ञवल्क्य ब्रह्मिष्ठोऽसीति। “नमो वयं ब्रह्मिष्ठाय कुमों गोकामा एव वयं स्मः”इति याज्ञवल्क्यस्योक्तिभङ्गया तस्य ब्रह्मिष्ठत्वाभिमानमधिकं सन्तमवधार्य तद्विजिगीषया अश्वलादिषु केषुचित् तत् पृष्टवसुतेन च सदुत्तरोक्या जितेषु, अथहैनं गाग पप्रच्छेत्यादिगार्गिब्राह्मणं प्रवृत्तम्, तत्र गाग्र्या, 'यदिदं सर्व मप्स्बोतञ्च प्रोतचे' त्यादिना तदुत्तरानन्तरं पुनःपुनःपृष्टस्य यज्ञवल्क्यस्य क्रमेण ब्रह्मलोकेषु गार्गीयुतरे सति, कमिन्नु खलु ब्रह्मलोका ओताश्च प्रेोताश्चेति पुनः गृपेन याज्ञवल्क्येन, गर्गि मातिप्राक्षीः मा ते मूर्धा व्यपसत् अनतिपश्चां वै देक्तामतिपृच्छसेि भातिप्राक्षीरिति सक्रोधमुक्ते भीता गागीं उपरराम । तत उद्दालके प्रसिद्धे ब्रह्मविदि सूत्रमन्तर्वामिणं च दृष्टवति यज्ञवल्क्येन जिते, पुनर्गागीं सर्वेषां ब्राह्मणानां पराजयो जायत इति शङ्कया याज्ञवल्क्यस्य क्रोधं ब्राक्षणानामनुज्ञयैवा किञ्चित्करतामपाद्य प्राक्, माऽतिप्राक्षीरिति निवारितं प्रश्नं पुनःकरिष्यामीत्याशयक्ती ब्राह्मणा भगवन्तोऽहमिमं द्वैौ प्रौ प्रक्ष्यामि। तौ चेन्मेन्वक्ष्यति; न वै जातु युष्माक मिमं कश्चित् ब्रह्मोद्यं जेते' ति तेषामनुज्ञां याचित्व, पृच्छेति तैरनुज्ञाता क्षद्वयं पप्रच्छ, यदूध्र्वे याज्ञवल्क्ये' त्यादिना। अत्र च पूर्वमनतिप्रश्न्यां वै देवतामतिपृच्छ: सीति गार्गिब्राह्मणान्ते याज्ञवल्क्येन सक्रोधं यः प्रक्षेो निवारितः स एव खलु गाग्र्या सर्वेषां पराजयो भविष्यतीति भीतया तस्य क्रोधमविगणय्य पुनः प्रक्षेोऽवतरितः । तस्य च परमात्मनि पर्यवसानं गर्गिब्राह्मण एवानतिमन्यां वै देवतांमतिपृच्छसीति याज्ञवल्क्यवचनेन स्फुटमिति, तदनुसारेण तदुत्तरप्रभृस्यापि परमात्मनि पर्यवसानं