पृष्ठम्:भावप्रकाशिका-भागः २.pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता पादयितुं वा, क्रचित् क्षरे प्रकृतिविशेषे अक्षरशब्दस्य मुख्यत्वायोगात् परब्रह्मारुपाक्षरसंबन्धेन लक्षणायां प्रयोजनाभात्रात्, जीवसंबन्धेन त्वजहल्लक्षणया लयविशेषादिप्रतिपादनैौचित्यात्, “उभावेतौ लीयते परमात्मनी ' ति द्वयोरपि लया. द्यभिधनाच अत्राजहंलक्षणैव युक्तत्यभिप्रायाद्वेति न कश्चिद्विरोधः' इत्युक्तम् । तदत्रानुसन्धेयम् ।। सा च प्रशासनात् --१०. ननु नात्र अम्बरान्तधृतेः परमात्मप्रशासनाधीनत्वमिति । परमात्म शब्दोऽक्षरपः, । एतस्य वाऽक्षरस्य प्रशासने गर्गेि सूर्याचन्द्रमसैौ विधृतौ तिष्ठत इत्यादिश्रवणेऽपि अम्ब्ररान्तशब्दस्यात्र श्रवणादिति भाव । विषयप्रकर्थात् िवषया सङ्कोचदित्यर्थः । श्रुत्यन्तरेष्विति । ननु श्रुत्यन्तरे शासनाधीनसर्वधारकत्वस्य परमात्मधर्मत्वेन श्रतत्वेऽपि अक्षरब्राह्मणे तादृशपरमात्मास,धारणधर्मश्रवणं नेति चेत् उच्यते, ‘एतस्य वा अक्षरस्य प्रशानसे गागत्यत्र वैशब्दस्य प्रमाणान्तरमसिद्विद्योतक तया प्रापमानान्तरप्रदर्शनस्यापेक्षितत्वात् अनुवादाक्यस्थ प्रापकवाक्यानुसारेणार्थस्य वर्णनीयत्वात् पुरोबादाक्ये असङ्कोचेन सर्वप्रशासनश्रवणात् अनुवादकमपि वाक्यं तदर्थ. कमित्यभिप्रायेण तदुदाहृतमिति द्रष्टव्यम् । ननु द्यावापृथिव्यादीनां तन्नियोज्य (याग्य) त्वाभावप्रसङ्ग इष्टापत्तावापादितायां प्रमाणान्तरस्यैव शरणीक्ररणीयतया तदेवोपन्यस्यताम्; किं तदपेक्षेणानेनेत्यस्वरसादाह किञ्च यस्येत्यादिन् । अव्याकृतस्य धारणं श्रूयत इति। ततश्च अव्याकृनस्य धारणे प्रतिपाद्य, कथं तस्याव्याकृतस्य धारणमित्याकाङ्कायाम्, शासनाधीनं धारणमिति प्रतिपादनाय, * एतस्य वा अक्षरस्य प्रशासने ! इत्यादि सन्दर्भ प्रवृत्तः । तस्य ह्ययमभिप्रायः – सूर्याचन्द्रम्:प्रभृति सर्वपदार्थजातं शासनेन धास्यतो ऽक्षरस्य परब्रह्मणः प्रशासनेन धारणे को भार इतेि । ततश्च, 'एतस्य वा अक्षरस्यं प्रशासन' इति सन्दर्भस्याम्बरान्तधृतिप्रकारोपपादनार्थत्वात् अम्बर:तधारणमपि शासनाधीनं सिध्यतीति भावः । नतु द्रष्टत् चक्षुर्जन्यज्ञानवत्वम्; श्रोतृत्वं श्रोत्रजन्यज्ञानवत्त्वम्। न चैतत् पर मात्मनि करणशून्ये संभवतीत्यत आहद्रष्ट्रादिशब्दा इति। रूसाक्षात्कर्ता द्रष्टा, शब्दः