पृष्ठम्:भावप्रकाशिका-भागः २.pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता त्यादाविति भावः । अत्र यदि संभवतीत्यनेन तत्रापि सुदूरं गत्वा ऐक्यविधि शेषत्वमेवेति भावः । अत इदं वाक्यं प्रकृततुल्यद्रष्टन्तरनिषेधपरमति । न चस्मिन्नपि पक्षे पूर्वोक्तदोषतादवस्थ्यम्, द्रष्टरेव श्रोतृताया , 'नान्यदतोऽस्ति द्रष्ट । इत्यनेनैव सिद्धतया प्रत्येकनिषेधवैयथ्र्यादिति वाच्यम्–द्रष्टवश्रोतृत्वादीनामनति. रिक्तवृत्तित्वेऽपि तुल्यो द्रष्टा नास्तीत्युक्ते द्रष्टत्वांशे साम्यं नातीति प्रतीतावपि श्रोतृत्वांशेऽस्तोति शङ्कायाः संभवात् साफल्यमिति भावः । प्रशासने ददतः । प्रशासन इति निमित्तसप्तमी । तदाज्ञया ददतो जनान् मनुष्याः प्रशंसन्ति । तदाज्ञया यागं कुर्वन्तं देवाः प्रशंसन्ति । तदाज्ञया प्रवृत्तं दर्वीहोमं पितरः प्रशंसन्तीत्यर्थः । अनुवशा इत्यर्थ इति । अनुवशाः उपजीविन इत्यर्थः । देवत्रिादय ईश्वरास्पन्तोन्यथापि जीवितुमुत्सहन्तः () कृपणां वृत्तिं यत्प्रशासना दास्थिता इत्यर्थः । तस्मिन् परिजिहीर्पित इति । यदि ब्रह्मणो मिथ्यात्वं परि जिहीर्षितम्, तदा ब्रह्मणो द्रष्टभेदस्यैवाभ्युपगन्तव्यतया, अदृष्ट द्रष्टिति वाक्यप्रति पाद्यत्वं ब्रह्मणो न स्यादित्यर्थ । प्रधानस्येश्वरत्वेति । प्रशासितृत्वस्येश्वरत्वपथैव सन्नत्वात्, द्रष्टत्वस्य क्षेत्रज्ञत्वे पर्यवसन्नत्वादिति भाव । इति अक्षराधिकरणम् । (३) ईक्षतिकर्माधिकरणम् (४) ईक्षतिकर्मव्यपदेशात्सः १-३-१३ . प्रक्षोपनिषदि, “अथ हैं। शैव्यः सत्यकामः पप्रच्छ, स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत, कतमं वाव स तेन लोकं जयतीति । तस्मै सं होवाच, एतद्वै सत्यकाम !. परं चापरं च ब्रह्म ट्दोङ्कारः । तस्माद्विद्वानेतेनै वायनेन एकतरमन्वेति । स यद्येकमात्रमभिध्यायीत, स तेनैव संवेदितस्तूर्णमेवं जगत्यामभिसंपद्यते । तमृचो मनुष्यलोकमुंपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति । अथ यदिं द्विभत्रेण मनसेि संपद्यते, सोऽन्तरिक्ष यजुर्भिरून्नीयते सोमलोकम् ।. स सोमलोके विभूतिमनुभूय पुनरावर्तते । य