पृष्ठम्:भावप्रकाशिका-भागः २.pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८ श्रीरङ्गरामानुजमुनिविरचिता ननु उपक्रम एव, 'परं चापरं च ब्रहे ' ति द्वेधा विभज्य, ' परं पुरुषमभिध्यायीत परात्परं पुरिशयं पुरुषमीक्षत ? इति परबेन विशेषणांच परमेव ब्रमेयस्य म अनेकब्रह्मलिङ्गविरोधे मनुप्यादिलोकप्रयपाठमात्रेण लिङ्गबाधायोगात् कथं पूर्वपक्ष इति चेत्-उच्यते; प्रायपाठावगतचतुर्मुखलोकगतपुरुषनिरीक्ष्यमाणत्वस्य लिङ्गस्या नन्यथासिद्धत्वादिति पूर्वपक्ष्यभिमानात् । नपुंसकान्तनिर्दिष्टमिति । एतच्छब्देन नपुंसकपदनिर्दिष्टत्वं परामृश्यतः इति भावः । भाष्ये कर्मनिमित्तं देहेित्वमिति । 'भूत घन' इति मूर्ती घन शब्दो निपातितः । मूर्तिः काठिन्यांमति व्याख्यातम् । जीवस्य काठिन्यं देहद्वारकम् । देहित्वादेव कर्मकृत्वमपि सिद्धयतीति भावः । सशरीरत्वादेव हीति आत्मन श्रतुण मुखानामसंभवादित्यर्थः । भाष्ये न क्षयिष्णुश्चतुर्मुखलोक इति । ननु ब्रालोकशब्देन परब्रह्मलोकपरामर्श चतुर्मुखम् प्रागनिर्दिष्टत्वात् , “एतस्मात् जीव धनात्' इत्येतच्छब्दस्य प्रकृतपरामत्विं न स्यात् । अतः शङ्करादिरीत्या ब्रह्मलोक शब्दस्य चतुर्मुखलोकपरत्वमेवाभ्युपगम्य एतस्मादित्येतच्छब्देन च ब्रह्मलोक शब्दान्तर्गतब्रह्मशब्दनिर्दिष्टचतुर्मुखपरामशों वक्तव्य इत्येवाभ्युपेत्यमिति चेन्न ब्रह्मलोकशब्दस्य चतुर्मुखलोकपरत्वेऽपि चतुर्मुखस्य समासे न्यग्भूतस्य परामर्श संभवात् । न च प्राधान्येन निर्दिष्टस्य चतुर्मुखलोकस्यैव परामर्शः स्यादिति वाच्यम् तत्र जीवधनशब्दस्याप्रवृतेः । कथञ्चिद्वृत्तावाश्रितायामपि चेतनस्याचेतनात्। चतुर्मुखोत् उत्कर्षशतिपादनस्यायुक्तत्वाच। तस्मादेतच्छब्दस्य, ' और ज्योति । रित्यादिवत् प्रस्तोष्यमाणजीवघनपरामर्शित्वं युक्तमिति द्रष्टव्यम् । आदिशब्देने त्यादि । यद्यप्यदिशब्दार्थतथा प्रदर्शितेषु वाक्येषु सूरिदृश्यत्वं न प्रतीयते, अपि तु सूर्याधारत्वमेव ; 'तद्विासो विपन्यव ! इत्यत्रापि विपन्यवः – स्तुतिशीला, जागृवांस - अस्खलेितज्ञानाः, तद्विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इति वेदार्थसङ्गहे व्याख्यातवात् – तथाऽपि सूरिस्थानभूतस्य पूरिदृश्यत्वमप्यर्थसिद्ध गित्यभिप्रेत्योक्तमिति द्रष्टव्यम् । कार्यब्रह्मशब्देनेति । यदपरं कार्यं ब्रह्मति.भाष्ये कार्यब्रह्मशब्देन , ' चतुर्मुखलोकस्यापरब्रह्मपदवाच्यत्वमेव युक्तम्; न तु परब्रह्म